________________
१७६ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, ४८२-'अर्वग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः, ॥
प्रार्थयध्वं तथा सीता, यात सुग्रीव-शासनम् ॥४८॥ अवग्राह इत्यादि-अवग्राहो वर्षप्रतिबन्धः । '३२२६। अवे ग्रहः२३३॥५१॥ इति पक्षे अप् । यथा अवग्राहे कृषीवला वृष्टिं प्रार्थयन्ते तथा सीतां यूयं प्रार्थयध्वम् । तस्या दुर्लभस्वादत्यन्तादरणीयत्वाच्च । यात सुग्रीव. शासनात् ॥ ४८३-वणिक् प्रयाह-वान् यत् काले चरति सिद्धये, ॥
देशाऽपेक्षास् तथा यूयं याता ऽऽदायाऽङ्गुलीयकम्.' वणि गित्यादि-तुला प्रगृह्यते येन सूत्रेण स प्रग्राहः । '३२३७। प्रे वणिजाम् ।३।३।५२।' इति करणे घञ् । स तुलासंबन्धी विद्यते यस्य वणिजः । संसर्गे मतुप् । यथा तुलाप्रवाहवान तदुपलक्षितो वणिक् काले उचिते क्रयसि. द्धये चरति तथा यूयं अङ्गुलीयकं तुलासूत्रस्थानीयं चिह्नमादाय देशापेक्षाः तत्त. देशस्थितास्तत्र हि चिह्न रामदूता इति लक्ष्यन्ते ॥ ४८४-अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम् ॥
वाजिनः स्यन्दने भानोर् विमुक्त-प्रहा इव. ॥५०॥ अभिज्ञानमित्यादि-ते वानरा नभस्तलमुत्पेतुः । वाजिन इव विमुक्तप्रग्रहाः । विमुक्तः प्रग्रहो नियमरज्जुर्येषामिति । '३२२८१ रश्मौ च । ३।३॥५३॥' इति विभाषाग्रहणमनुवर्तते । घनभावपक्षे '३२३२। ग्रह-वृट-निश्चि-गमश्च ।।३।५८।' इत्यप् । स्यन्दने रथे भानोरादित्यस्य । किं कृत्वा । अभिज्ञानं गृहीत्वा चिहमङ्गुलीयकमादाय ॥ ४८५-उदक् शतवलि कोव्या, सुषेणं पश्चिमां तथा ॥
दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः ॥५१॥ उदगित्यादि-वानराणां राजा सुग्रीवः शतवलिं नाम वानरं वानराणां कोव्या सह उदगुदीची दिशं प्रास्थापयत् । तिष्ठतेय॑न्तस्य लङि रूपम् । उदी. चीशब्दात् प्रथमान्तादिशि वर्तमानादस्तातिः। तस्याश्चतेलुक् । लुक् तद्धितलु. कीति स्त्रीप्रत्ययस्य लुक् । तस्मिन्निवृत्ते भसंज्ञाभावादीत्वमपि निवर्तते । तसि. लादिस्तद्धित एधाचपर्यन्त इत्यव्ययत्वे द्वितीयालुक् । तथैव सुषेणं वानरं पश्चिमा दिशं प्रास्थापयत् । कृतत्वरः त्वरितः ॥
१-९५ । वृष्टिर् वर्ष तद्विघाते ऽवग्राहाऽवग्रहौ समौ ।' २–१४५ । तुला सूत्रे वादिरश्मौ प्रग्राहः प्रग्रहो ऽपि च । ३-(४८३) लोकस्यं टीकनं प्रेक्ष्यम्' इति ना० भ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com