________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १७५ ४७८ - प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः ॥
ज्ञातव्या चेङ्गितैर् धर्यैर् ध्यायन्ती राघवाऽऽगमम् ॥ प्रग्राहैरित्यादि - पात्राणां भिक्षाभाजनानां प्रग्राहैरिव कृतैरन्वेष्या मैथि - ली । भिक्षुकवेषैरिव युष्माभिरित्यर्थः । ग्रहेः ॥ ३२२१| प्रे लिप्सायाम् | ३|३|४६ ।' इति भावे घञ् । कर्मणि षष्ठी । इङ्गितैर्धम्यैः चेष्टितैः कुलाङ्गनोचितैः ज्ञातव्या सा ध्यायन्ती रामागमम् । कुलाङ्गना हि प्रोषितभर्तृका सर्वदा भर्तुरागमनं ध्यायति ॥
४७९ - ' वेदि-वत् स परिग्राहा यज्ञियैः संस्कृता द्विजैः ॥
:
दृश्या मास-तमार्दह्नः प्रार्ग-निन्दित- वेश-भृत् ॥४५॥ वेदिवदित्यादि - यथा यज्ञियैर्यज्ञकर्मा हर्द्विजैः ब्राह्मणैः । वेदिः यज्ञस्थली । सपरिग्राहा परिगृहीता यथा संस्कृता तथा सा ऽपि अतिपवित्रत्वात् । ग्रहेः '३२२२। परौ यज्ञे ।३।३।४७ | ' इति यज्ञविषये घञ् । मासतमादह्नः प्राग्दृश्या दर्शनाहः । मासस्य पूरणं यदहः । १८५७ । नित्यं शतादिमास - ५/२/५७१' इत्यादिना तमडागमः । अस्मादेव निपातनात् मासस्यासंख्यावाचित्वे डट् । मासत मे ऽह्वीति हेतुं दर्शयन्नाह । तस्याः पूतत्वात्तद्वदनिन्दितवेशभृत् मैथिली मङ्गलमात्राभरणा दर्शनाह । तां द्रष्टुं भवतां न चिरकालो भवतीति मासावधिना प्रेषिताः ॥
४८० - नीवार-फल-मूलका॒ऽशार्नृषीन॑प्य॑तिशेरते ॥
या गुणा निर्हेद्रावासू तां द्रुतं यात, पश्यत ॥४६॥ नीवारेत्यादि - यस्या गुणा ब्रह्मचर्यादयः ऋषीनप्यतिशेरते न्यक्कुर्वते त द्रुतं यात पश्यत । तत्र नीवारः अकृष्टपच्यधान्यम् । '३२२३ | नौ वृ धान्ये ५३ | ३ | ४८|' इति घञ् । '१०४३ । उपसर्गस्य घञ् - १६ । ३ । १२२ ।' इति दीर्घत्वम् । फलं मोचादि । मूलं शालूकादि । एतान्यश्नन्ति ये ऋषयः । कीदृशा गुणाः । 'निरुद्रावाः स्थिराः । '३२३४ | उदि श्रयति - | ३ | ३ | ४९ | ' इति घन् ॥ ४८१ - उच्छ्राय-वान् घनाऽऽरावो वानरं जलदाsरवम् ॥ दूराssलावं हनूमन्तं रामः प्रोचे गजाऽऽप्लवः ॥४७॥ उच्छ्रायवानित्यादि - रामो हनूमन्तं प्रोचे । कीदृशः । उच्छ्रायवानुन्नतियुक्तः । पूर्ववद् घञ् । घनस्येवारावो यस्य । '३२२५ | विभाषा ऽङि रुपुवोः | ३ | ३|५० |' इति भावे घञ् । गजाप्लवः गजगमनः । पक्षे पूर्ववदपू । कीदृशम् । दूरालावं दूरादाला उद्गमनं यस्य । पूर्ववत् घञ् ॥
1
१ - ७२३ । वेदिः परिष्कृता भूमिः समे स्थण्डिल- चत्वरे " २– (३५५) लोकस्थं टिप्पणं प्रेक्षणीयम्' । ३ – '९१० तृणधान्यानि नीवाराः । इति ना० भ्र० । ४—(४६९) श्लोकस्थं टीकनमवलोकनीयम्' ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com