________________
न्याय्यमियोनीकोः ।३।३।३० इति । भनुपात्ययाव्यम् । ३२१
१४ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः,
आलोचयन्त इत्यादि-दक्षिणोदधेरम्भसां विस्तार विस्तीर्णताम् । विपूवांव स्तृणातेः '३२०४॥ प्रथने वावशब्दे ॥३॥३॥३३॥' इति घन् । आलोचयन्तो निरूपयन्तः। इयानस्य विस्तार इति । फलरसमास्वादयन्तः। मुष्टिसंग्राहपीडितम्। मुष्टेः संग्राहेण हस्तेन पीडितम् । ग्रहेः '३२०८। समि मुष्टौ ।३।३।३६।' घन् । भावे मुष्टिविषये व्युत्पादितत्वात् । मुष्टिग्रहणमभिव्यक्त्यर्थे ज्ञातव्यम् ॥ ४७५-न्याय्यं यद् यत्र, तत् कार्य पर्यायेणो ऽविरोधिभिः,॥
निशोपशायः कर्तव्यः फलोच्चायश च संहतैः॥४१॥ न्याय्यमित्यादि-यदत्र न्यायादनपेतं तत्कार्यमविरोधिभियुष्माभिः । '३२०९। परिन्योर्नीणोः-३।३।३७।' इति घन् । पदार्थानामनपचारेणेत्यर्थः। '३२० ११॥ व्युपयोः शेतेः पर्याये ॥३॥३॥३८॥' इति घम् । पर्यायेण परिपाट्या । ३२१०॥ परावनुपात्यय इणः ।३।३।३९।' इति भावे घञ् । अनुपात्ययः पर्यायः । निशो. पशायः कर्तव्यः । युष्माभिर्निशायामुपशायः पर्यायशयनं कर्तव्यम् । ३२११॥ ब्युपयोः शेतेः पर्याये ।३।३।३९।' इति घञ् । फलोच्चायश्च संहतैः युष्माभिः कर्तव्यः ३२१२। हस्तादाने-३।३।४०।' इति घञ्। हस्तादानं चादेयस्य प्रत्यासत्तिः। ४७६-सीता रक्षो-निकायेषु स्तोक-कायैश् छलेन च ॥
मृग्या शत्रु-निकायानां व्यावहासीमनाश्रितैः ॥ ४२ ॥ सीतेत्यादि-छलेन युष्माभिः सीता मृग्या । रक्षोनिकायेषु निवासेषु । निवसन्त्यस्मिन्निति अधिकरणे ३२१३। निवास-चिति-३॥३॥४१॥' इत्यादिना घञ् । आदेश्च ककारः । स्तोककायैर्युष्माभिः । चिन्वन्यमाच्छुभमिति कायः । शरीरे घन् । शत्रुनिकायानां अरिसमूहानाम् । निचीयत इति निकायः । ३२१॥ संघे चानौत्तराधर्ये ।३।३।४।' इति कर्मणि घञ् आदेश्च ककारः। तेषां संबन्धिी व्यावहासी परस्परहसनम् । अनावितैः । व्यवपूर्वाद्धसः कर्मव्यतीहारे '३२१६॥ णचः स्त्रियाम्-1५।४।१४॥' इति स्त्रीलिङ्गे भावे गचं विधाय णचः स्त्रियामन् । '३२१७। न कर्मन्यतिहारे ७।३।२६।' इति वृद्धिप्रतिषेधः ॥ ४७७–साराविणं न कर्तव्यं, यावन् नाऽऽयाति दर्शनम् , ॥
संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरः ॥ ४३ ॥ सांराविणमित्यादि-सांराविणमभिव्याझ्या भाषणं न कर्तव्यं युष्माभिः यावज्ञायाति दर्शनं सीतेत्यर्थात् संपूर्वाद्रौतेः ३२१८॥ अभिविधौ भाव हनुण ॥३॥३॥४४॥' तदन्तादणिनुण इत्यण् । तस्सिन् १२४५। इनण्यनपत्ये ॥१६॥ इति प्रकृतिभावः । यस्मात्संदृष्टायां चैतस्यां वैदेयां भरेनिग्राहः आक्रोशोऽमिमवलक्षणः वो युष्माकमर्थवान् । '३२२०। माक्रोशे ऽवन्योर्ग्रहः ।३।३।१५।' इति भावे घन ॥
१-५१९०। उपशायो विशाय च पर्याय शयनार्थको' इति ना०म०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com