________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः-- १७३ ४७१-उन्नीयानधिगच्छन्तः प्रद्रोवैर् वसुधा-भृताम् ॥ . ... वनाऽभिलावा कुर्वन्तः स्वेच्छया चारु-विक्रमाः३७ .. उन्नायानित्यादि-वसुधाभृतां पर्वतानां उन्नायानुच्चयानुच्चत्वान्यधिग. च्छन्तः जानन्तः। '३१९७। अवोदोर्नियः।३।३।२६।' इति भावे घञ्। कैः । प्रद्रावैः प्रकृष्टगतिभिः । '३१९८॥ प्रे दु-स्तु-स्नुवः ।३।३।२७।' इति घन् । वनाभिलावान् वनविध्वंसान् । '३१९९। निरभ्योः पू-ल्वोः ।३।३।२८।' इति भावे घञ् । स्वेच्छया कुर्वन्तः । चारुविक्रमाः असाधारणपराक्रमाः । यात यूयमिति संबन्धः॥ ४७२-सदोद्गार-सुगन्धीनां फलानामलमाशिताः ॥
उत्कारेषु च धान्यानामनभीष्ट-परिग्रहाः ॥ ३८॥ सदेत्यादि-सदा सर्वदा उद्गारे भक्षणानन्तरं श्वसनपूर्वके शब्दोच्चारणे यानि सुगन्धीनि तेषामलं पर्याप्तमाशिताः। '१५९५। गृ शब्दे' इत्यस्मादुत्पूवात् ३२००। उन्न्योः ।३।३।२९।' इति घञ् । आपूर्वादश्नोतेः। '३०५३। आदिकर्मणि क्तः कर्तरि च ॥१७॥' इति कर्तरि क्तः । कृत्प्रयोगे कर्मणि षष्ठी न लोकेति निषिद्धाऽतः शेषे षष्ठी। उत्कारेषु च राशिषु धान्यानाम् । '१५०३। विक्षेपे' इत्यस्मादुत्पूर्वात् '३०२१। कृ धान्ये ।३।३।३०।' इति कर्मणि घम् । भनभीष्टपरिग्रहाः अनभिलाषुका इत्यर्थः ॥ ४७३-संस्तावमिव शृण्वन्तश छन्दोगानां महाध्वरे ॥
शिञ्जितं मधु-लेहानां पुष्प-प्रस्तार-शायिनाम् ॥३९॥ संस्तावमित्यादि-मधुलेहानां भ्रमराणां पुष्पप्रस्तारशायिनाम् । ३२०३ प्रेस्रो ऽयज्ञे ३।३।३२।' इति घञ् । शिक्षितं शृण्वन्तः यूयं यात । छन्दोगानां महाध्वरे संस्तावमिव सम्भूय स्तवनमिव पाठध्वनिविशेषमिव वा । '३२०२। अज्ञे समि स्तुवः ॥३॥३॥३१॥' इति घम् ॥ ४७४-आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः ॥
स्वादयन्तः फल-रसं मुष्टि-संग्राह-पीडितम्. ॥ ४०॥
'१-(४७०) श्लोकस्थं टीकनमवलोक्यम् । २-(४६९) श्लोकस्यं टिप्पणमालोचनीयम् । ३–११८२ लवोऽभिलावो लवने निष्पावः पवने पवः' । ४–(४७०) लोकंस्थं टीकनं प्रेक्ष्यम् । ५-११९४। उत्कारशू च निकारश् च द्वौ धान्योत्क्षेपणार्थको' । ६-१९७॥ अथ मर्मरः । स्वनिते वस्त्र-पर्णानां भूषणानां तु शिञ्जितम् इति सर्वत्र ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com