________________
१७२ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, अतः परं भावे ऽकर्तरि च कारक इत्यधिकृत्य कृदुच्यते४६८ - ततः कपि समाहारमैऽकनिश्चयमागतम् ॥ उपाध्यायssssयामं सुग्रीवोऽध्यापिपद् दिशाम् ३४
तत इत्यादि - ततः कपिसमागमनानन्तरं सुग्रीवः कपिसमाहारं कपिसमूहं दिशामायाममध्यापिपत् बोधितवान् । अमुका अमुका दिकू ईदृशीति । '५४०। गतिबुद्धि - |१|४|५२ |' इत्यादिना समाहारस्य कर्मसंज्ञा । आयामपरिज्ञानं चास्य वालिभयाद्दूरपरिभ्रमणात् । एकनिश्चयमागतं एकराशितां प्राप्तं आयाममित्यर्थः । निश्चायमिति ३१९० | परिमाणाख्यायाम् - १३।६।२०|' इति घञ् । पश्चादेवशब्देन '७२६। पूर्वकालैक - | २|१|४९ | ' इति सः । क इव । उपाध्याय इवेति । उपेत्याधीयते भस्मादिति '३१९१ । इङश्च | ३ | ३ |२१|' इति घम् ॥ ४६९ - स- जलाऽम्भो-द-संरावं हनुमन्तं सहा॒ऽङ्गदम् ॥ जाम्बवं नील-सहितं चारु- सैन्द्रावमब्रवीत् ॥ ३५ ॥ सजलेत्यादि - सुग्रीवो हनुमन्तमब्रवीत् । सजलाम्भोदसंरावं सजलमेवस्येव संरावो यस्य हनुमतः । '३१९२ । उपसर्गे रुवः | ३।३२२|' इति घञ् । सहाङ्गदं अङ्गदसहितम् । तथा जाम्बवं ऋक्षाधिपतिं नीलसहित मब्रवीत् । जाम्बवशब्दो ऽकारान्तो द्रष्टव्यः । चारुसन्द्रावं चारुगतिम् । '३१९४ । समि युदुदुवः | ३ | ३ | २३ |' इति घञ् ॥
कुलकम् ३६-४०
४७० - ' यात यूयं यम- श्रायं दिशं नायेन दक्षिणाम् ॥ विक्षवस् तोय-विश्रावं तर्जयन्तो महोदधेः ॥ ३६ ॥
यातेत्यादि - यूयं यात गच्छत । यमश्रायं यमस्थानम् । श्रयत्वेन मिति '३१९५ । श्रि णी-भुवो ऽनुपसर्गे | ३ | ३ | २४|' इति घञ् कर्मणि । काम् ? दक्षिणां दिशम् । सामान्याभिधानाद्विशेषाभिधानम् । नायेन नीत्या सामादिना । नीयतेऽनेनेति पूर्ववत्करणे घञ् । महोदधेस्तोयविश्रावं तोयध्वनिं तर्जयन्तो न्यक्कुर्वा - णाः । कैः ? विक्षावैः स्वैः शब्दैः । उभयत्रापि ' ३१९६। वौ श्रुश्रुवः ।३।३।२५।' । इति कर्मणि घन् ॥
१ – '७१२ । उपाध्यायोऽध्यापकः' । २ – '१९५ ॥ शब्दे निनाद- निनद-ध्वनिध्वान-रव-स्वनाः । १९६ । स्वान - निर्धाष निर्ह्राद- नाद. निस्वान - निःस्वनाः । आरवाऽऽरा वसंराव-विरावाः ।' ३ – '८७६ | प्रद्रावोद्राव-संद्वाव- संदावा विद्रवोद्रवः । ४'११७० । उन्नाय उन्नये, श्रायः श्रयणे, जयने जयः ।' ५ - ' ११९५ । निगारोद्वार विक्षावोद्ग्राहास्तु गरणादिषु ।' इति स० ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com