________________
तथा लक्ष्य - रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः - १७१
तत इत्यादि - तत आदेशादनन्तरं कपीनां संघाताः समाजग्मुः । हर्षात् हर्षेण । आदेशादानमेव हर्षहेतुः । राघवभूतये कापि नाम राघवस्य संपत्स्थादिति समाजग्मुरित्यस्यां क्रियायां क्रियार्थायामुपपदे '३१८०| भाववचनाच्च |३ | ३|११|' इति भविष्यति क्तिन् । चतुर्थी च पूर्ववत् । पूरयतो व्याभुवन्तः । दश दिशः । भयदायाः भयं दास्याम इत्यस्यां क्रियायामुपपदे '३१८१| अण् कर्मणि च | ३ | ३|१२|' इत्यण् । आतो युक् ॥
४६५ - सुग्रीवऽन्तिकर्मासेदुः सादयिष्याम इत्य॑रिम् ॥
करिष्यन्त इव कस्माद् भुवनं निर्-दशाननम्. ३१
सुग्रीवेत्यादि - भरिं शत्रुं सादयिष्यामो व्यापादयिष्याम इति सुग्रीवा - न्तिकमासेदुः आगताः । ‘२१९३ | लुट् शेषे च | ३ | ३||३|' इति चकारात् क्रियार्थायामुपपदे भविष्यति लुट् । आसेदुरिति क्रिया क्रियार्था । अकस्मादतर्कितं भुवनत्रयं निर्दशाननं रावणरहितं करिष्यन्त इव तथाविधमहासंरम्भदर्शनादुत्प्रेक्ष्यते । '२१९३ । लुट् शेषे च | ३ | ३ | १३ | ' इति लुट् । अत्र क्रियायाः क्रियार्थाया अन्यः शुद्धो भविष्यत्कालः शेषः ॥
४६६ - कर्ता ऽस्मि कार्यमयातैरैभिरत्यवगम्य सः ॥
काकुत्स्थ- पादप-च्छायां शीत- स्पर्शामुपागमत्. ॥३२॥ कर्तास्मीत्यादि — एभिरायातैर्वानरैः कार्य सीतान्वेषणादि कर्तास्मि करिव्यामीति अवगम्य | अनद्यतने भविष्यति लुट् । सुग्रीवः काकुत्स्थपादपच्छायामुपागमत् । पद्यन्त इति पादाः । '३१८२ | पद-रुज - १३।३।१६। ' इति । कर्तरि घञ् । तन्त्र भविष्यतीति निवृत्तम् । पादैः पिबतीति पादपो वृक्षः । '२९१५ | भातो ऽनुपसर्गे कः | ३|२|३|' | काकुत्स्थः पादप इव समाश्रयणीयत्वात् । तस्य छायां शीतस्पर्शाम् अनुद्वेजनकरीम् । स्पृश्यत इति स्पर्शस्तन्मात्र उच्यते । '३१८८ | अकर्तरि च - १३।३।१९।' इति घञ् । नतु '३१८२| पद- रुज - | ३ | ३ |१६। ' इत्यादिना । तत्र हि 'स्पृश उपताप इति वक्तव्यम्' इत्युक्तं, स्पृशतीति स्पर्श उपतापः ॥
४६७ - कार्य सार-निभं दृष्ट्वा वानराणां समागमम् ॥
अवैन् नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः ॥ ३३ ॥ इति निरधिकारकृत् ॥
कार्यमित्यादि - राघवो वानराणां समागमं दृष्ट्वा कार्य सारनिभं सीताला - भतुल्यम् । सरति कालान्तरे तिष्ठतीति कर्तरि कारके '३१८३ | सुस्थिरे | ३|३| १७|' इति घन् । दशास्यस्य रावणस्य नाशं विनाशं निर्वृत्तमिव निष्पन्नमिक अवैत् ज्ञातवान् । श्रवपूर्वादिणो लङि रूपम् ॥
इति निरधिकाराः कृतः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com