________________
१७० भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, ४६१-एष शोक-च्छिदो वीरान् प्रभो ! सम्प्रति वानरान् ॥ धरा-शैल-समुद्राणामन्त-गान् प्रहिणोम्यहम् ॥२७॥'
इति ताच्छीलिकाः समाप्ताः । एष इत्यादि-हे प्रभो! एषोऽहं सम्प्रति वानरान् प्रहिणोमि प्रस्थापयामि । कीदृशान् । शोकच्छिदः शोकापनोदनशीलान् । अन्येभ्यो ऽपि दृश्यत इति विप् । वीरान् शूरान् । धराशैलसमुद्राणां अन्तं गच्छन्ति ये तानन्तगान् । '२९६५। अन्तात्यन्त-३।२।४।' इति डः । धरा पृथ्वी । धरासमुद्रशैलानामिति पाठान्तरम् । अन्न 'बहुष्वनियमः' इति पूर्वनिपातः । यथा वीणाशङ्खदुन्दुभयः ॥ इति ताच्छीलिककृतः ॥
अथ निरधिकारकृत् - इतो विशेषाधिकाराभावात् निर्विशेषकृतो दर्शयबाह४६२-राघवस्य ततः कार्य कारुर् वानर-पुङ्गवः ॥
सर्व-वानर-सेनानामश्विागमनादिशत्. ॥२८॥ राघवस्येत्यादि-ततो ऽभिधानानन्तरं वानरपुङ्गवः सुग्रीवः सर्ववानरसेनानामाशु शीघ्रमागमनमादिशत् आदिष्टवान् । पुमांश्चासौ गौश्चेति । '७२९। गोरतद्धितलुकि ।५।४।९२।' इति समासान्तष्टच् । व्युत्पत्तिमात्रमेतत् । पुङ्गवशब्दस्तु प्रधानमाचष्टे । कारुः करोतीति '३१६१। उणादयो बहुलम् ।।३. ।।' इत्यौणादिकः । 'कृ-वा-पा-जि-' इत्यादिना उण् । एवमाशु । कस्य कर्तेत्याह । राघवस्य कार्यम् ॥ ४६३-'वयमद्यैव गच्छामो रामं द्रष्टुं त्वराऽन्विताः ॥
कारका मित्र-कार्याणि सीता-लाभाय',सोऽब्रवीत्.॥ चयमित्यादि-आगमनमादिश्य सुग्रीवो ऽब्रवीत् उक्तवान् । वयमचैव गच्छाम इति । रामं द्रष्टुं रामं द्रक्ष्याम इति । त्वरान्विताः त्वरिता इत्यर्थः । कीदृशा वयम् । सीतालाभाय सीतां प्राप्स्याम इति । कारका मित्रकार्याणि रावगवधादेः कार्यस्य कर्तारो भविष्याम इति । गच्छाम इति क्रिया । तस्यां कियायां क्रियायामुपपदे तुमुन् ण्वुलौ भविष्यति काले स्याताम् । मित्रकार्या. णीति । '६२८ अकेनोभविष्यदाधमर्ययोः ।।३।७०।' इति षष्ठीप्रतिषेधे द्वितीयैव स्यात् । सीतालाभायेति ३१००। भाववचनाच ॥३॥३॥१॥ इति क्रियायां क्रियार्थायामुपपदे भविष्यति घन् । '५८२। तुमर्थाच्च भाववचनात् । इति चतुर्थी ॥ ४६४-ततः कपीनां संघाता हर्षाद् राघव-भूतये ॥
पूरयन्तः समाजग्मुर् भय-दाया दिशो दश. ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com