________________
· तथा लक्ष्य रूपै कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६९ इत्यादिना यङ् । दीपं साधु दीप्यमानम् । अकम्प्रं अकम्पनशीलं अभीरुमित्यर्थः । नम्रः साधु प्रह्वीभूतः । सर्वत्र ३१४७। नमि कम्पि-३।२।१६७।' इत्यादिना ः॥ ४५८-कमाभिरावृतः स्त्रीभिरीशंसुः क्षेमात्मनः ॥
इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन् नृपम्.॥२४॥ कम्राभिरित्यादि-सुग्रीवः प्रावदन नृपं लक्ष्मणम् । स्वीभिरावृतः परि. वृतः सन् प्रणमन् । ताभिः सहेत्यर्थः । कनामिः कमनशीलामिः । पूर्ववद्रः । मात्मनः क्षेमं कल्याणमाशंसुः प्रार्थयमानः । ३१४८। सनाशंसभिक्ष उः।३।। १६' '६२७। न लोक-१२।३०६९।' इति षष्ठीप्रतिषेधः । इच्छुः प्रसादं प्रसाद यिषणशीलः । 'अपि मे स्वामी प्रसन्नः स्यात्' इति । '३१४९। विन्दुरिच्छुः । ३।२।१६९।' इति निपातनम् ॥ ४५९-'अहं स्वप्न प्रसादेन तव वन्दारुभिः सह ॥
अ-भीरुरवसं स्त्रीभिर् भासुराभिरिहेश्वरः ॥ २५ ॥ अहमित्यादि-अहं तव प्रसादेन इह गुहायामवसं उषितवान् खमक् निद्रालुः चिन्ताभावात् । '३१५२। स्वपि.तृषोर्नजिङ् ।३।२।१७२।' वन्दारुभिः वन्दनशीलाभिः सह । '३१५३। श-वन्द्योरारुः ।३।२।१७३।' अभीरुः अभयशीलः । ३१५४। भियः क्रु-कुकनौ ।३।२।१७४।' । भासुराभिः भासनशीलाभिः । ईश्वरः ईशनशीलः । ३१५५/ स्थेश-भास-३।२।१७५।' इति वरच् ॥ ४६०-विद्यन्-नाशं रवेर् भासं
विभ्राजं शश-लाञ्छनम् ॥ राम-प्रत्तेषु भोगेषु
नाहमज्ञासिषं रतः ॥ २६ ॥ .. विद्युदित्यादि-रामप्रत्तेषु रामदत्तेषु भोगेषु रतः सक्तः । नाहमज्ञासिषं नाहं ज्ञातवान् । लुङि '२३७७। यम-रम-७२।७३।' इत्यादिना सगिटौ । विद्युन्नाशं द्योतनशीला विद्युतः तासां नाशम् । रवे ः भासनशीला दीप्तिः । तामु विभ्राजं साधु दीप्यमानं शशलान्छनं चन्द्रम् । प्रावृडतिकान्ता शर दायातेति नाज्ञासिषमित्यर्थः । सर्वत्र '३१५७। भ्राज-भास-३।२।१७७।' इति किम् ॥.
१-१०६९। कन्नः कामायिता ऽभीकः कमनः कामनो ऽभिकः। २–१०७२। भाशंसुराशंसितरि' । ३-(४५५) श्लोकस्थ टिप्पणं प्रेक्षणीयम् ॥ ४-१०७३ । वहमिवाइके' इति स०.ना०म०॥ . . .
भ० का० १५ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com