________________
१६८ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयो वर्गः, ४५५-स्पृहयालुं कपि स्त्रीभ्यो निद्रालुम-दयालु-वत् ॥
श्रद्धालु भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्.' ॥२१॥ स्पृहयालुमित्यादि-स्त्रीभ्यः स्पृहयालु कपि साधु स्पृहयन्तम् । स्पृहिः स्वार्थिकण्यन्तो ऽदन्तश्च । २३११॥ अयामन्त-६।४।५५।' इत्ययादेशः । ५७४। स्पृहेरीप्सितः ॥१॥४॥३६।' इति सम्प्रदानसंज्ञा । द्रुतं वद ब्रूहि । अदयालुवत् अदयनशील इव । निद्रालुं निद्राशीलं अस्मत्कार्येष्वनवधानत्वात् शयनीय एव सर्वदा स्थितत्वात् स्वीमिः सह । श्रद्धालुं साध्वमिलषन्तम् । किम् । भ्रामरं भ्रमरैः कृतम् । '१४९९। क्षुद्राभ्रमर-।४।३।११९।' इत्यादिना अञ् । मध्वित्यर्थात् । '६२७। न लोक-२।३।६९।' इति षष्ठीप्रतिषेधः । '३१३८ । स्पृहि-गृहि -३।२।१५८।' इत्यादिना आलुच् । श्रद्धालुत्वादेव धारं साधु पिबन्तं भ्रामर. मेव । सर्दु साधु सीदन्तम् । क । अद्रौ । ३१३९। दा-धेट-सि-शद-सदो रुः ।३।२।१५९।' ॥ ४५६-सृमरो भङ्गुर-प्रज्ञो गृहीत्वा भासुरं धनुः॥
विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्.॥२२॥ समर इत्यादि-लक्ष्मणः कपीन् प्राप । कीदृशः। साधु गन्ता । '३१४०। सृघस्यदः क्मरच् ।३।२।६०' । भङ्गुरा ये स्वयमेव भज्यन्ते । ३१४१ भञ्ज-मास -३।२।१६।' इति घुरच् । तान् प्रजानातीति भङ्गुरप्रज्ञः २९२० । प्रे दाज्ञः ।३।२।६।' इति कः । विदुरः साधु वेदी । '३९४२ । विदि-मिदि-च्छिदेः कुरच् ।३।२।१६२।' । जित्वरः साधु जयशीलः । '३१४३। इण्-नश्-जि-३।२।१६३।' इत्यादिना करप् । गृहीत्वा धनुर्भासुरं भासनशीलम् । गत्वरान् गमनशीलान् कपीन् । अस्थिरप्रकृतीनित्यर्थः । 'गत्वरश्च' इति निपातितम् । गमे करप्यनुनासिकलोपः॥ ४५७-तं जागरूकः कार्येषु दन्दशूक-रिपुं कपिः॥
अ-कम्प्रंमारुतिर दीपं नम्रः प्रावेशयद् गुहाम् ॥२३॥ तमित्यादि-तं लक्ष्मणं कपिआरुतिः गुहां प्रावेशयत् । विशेहेतुमण्ण्यन्तात् लडि रूपम् । कार्येषु कृत्येषु जागरूकः सावधानः । ३१४५। जागरूकः ।३।२।१६५।' इति जागर्तेरूकः । दन्दशूकरिपुं हिंस्रारिम् । '३१४६॥ यज-जप -३।२।१६६।' इत्यादिना दंशेर्यङन्तादूकः । २६३५। लुप-सद-३।१।२४।'
१-१०७८। स्वप्नक् शयालुर् निद्रालुर् निद्राण-शयितौ समौ'। २-१०७२। श्रद्धालुः श्रद्धया युक्ते' । ३–१०७७। जागरूको जागरिता'। ४-'दन्दशूकस तु पुंलिङ्गो राक्षसे च सरीसृपे।' इति कोशान्तरम् । ५-११२०। चलनं कम्पनं कम्प्रं, चलं लोलं चलाच. लम् । इति सर्वत्र ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com