________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६७
१३१३३। सूद-दीप-दीक्ष-३।२।१५३॥' इति प्रतिषेधः । निरस्तध्वान्तसंचयं अपनीतान्धकारसंहतिकं किमसौ शरत्समयं नावैतीत्यर्थः ॥ ४५२-अतीते वर्षके काले, प्रमत्तः स्थायुको गृहे ॥
गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्. ॥१८॥ अतीतेत्यादि-वर्षके वर्षणशीले काले अतीतेऽपि गृहे स्थायुकः स्थितिशीलः शरदि नागतत्वात् प्रमत्तः सन् सुग्रीवो वालिना गतं अध्वानं प्राप्तमार्ग ध्रुवमवश्यं गामुकः साधु गन्ता । '३१३४। लष-पत-३।२।१५४।' इत्युकम् । '६२७। न लोक-२।३।६९।' इति षष्टीप्रतिषेधः ॥ ४५३-जल्पाकीभिः सहा ऽऽसीनः
स्त्रीभिः प्रजविना त्वया ॥ गत्वा लक्ष्मण! वक्तव्यो
जयिना निष्ठुरं वचः ॥ १९ ॥ जल्पाकीभिरित्यादि-हे लक्ष्मण ! त्वया प्रजविना प्रकृष्टगमनशीलेन । '३१३६। प्रजोरिनिः।३।२।१५६।' जयिना अभिभवनशीलेन । ३१३७। जि-क्षि।३।२।१५७।' इत्यादिना इनिः । सुग्रीवो निष्ठुरं वचोभिधातव्यः । जल्पाकीभिः जल्पनशीलाभिः स्त्रीभिः सहासीनः । '३१३५। जल्प-मिक्ष-३।२।१५५।' इति षाकन् । वित्त्वात् ङीष् । तन्मध्ये हि परुषमभिधीयमानः । परिभवं मध्यत इति भावः॥ ४५४-शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी ॥
न्यायं परिभवी ब्रूहि पापम-व्यथिनं कपिम् ॥२०॥ शैल इत्यादि-कपि क्षिप्रं गत्वा ब्रूहि इत्यकथितं कर्म । न्यारयं वच इति प्रधानं कर्म । अस्य चातिस्पष्टार्थत्वादिदं तदिति संदिष्टम् । अनादरिणमनादरशीलं कपि कालातिक्रमणात् । आयूर्वो दृङ् । अत एव पापं दुराचारम् । अव्यथिनं निर्भयशीलम् । नञ्पूर्वो व्यथिः शैले विश्रयिणं तत्र स्थितिशीलम् । विपूर्वः श्रयतिः । त्वं चाभ्यमी अभिमुखगमनशीलः । अभिपूर्वोऽमगत्यादिषु । परिभवी साधु परिभवं जनयन् । परिपूर्वो भवतिः । भत्र सर्वत्र '३१३७। जिदृक्षि-३।२।१५७।' इत्यादिना इनिः ॥
१-१८१ । स्याज जल्पाकस तु वाचालो वाचाटो बहुगवाक् ।' इत्यनुशासनात् त्रिषु लिङ्गेष्वयं शमः।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com