________________
१६६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, ४४८ - अर्थोपशरदे Sपश्यत् क्रौञ्चानां चेष्टनैः कुलैः ॥ उत्कण्ठा-वर्धनैः शुभ्रं रेवणैरम्बरं ततम् ॥ १४ ॥
अथेत्यादि -- अथानन्तरमुपशरदे शरत्समीपे इति । '६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः |५|४|१०७ |' इति समासान्तष्टच् । '६५८ | तृतीया सप्तम्योर्बहुलम् |२|४|८४|' इत्यमभावः । क्रौञ्चानां कुलैस्ततं व्याप्तमम्बरं शुभ्रं शुक्कुमपश्यत दृष्टवान् । चेष्टनैः व्यापारशीलैः । खणैः शब्दनशीलैः । अनयोश्चलनशब्दार्थत्वात् ‘३१२८। चलनशब्द - | ३ |२| १४८|' इत्यादिना युच् । उत्कण्ठावर्धनैः उत्कण्ठावर्धनशीलैः । ‘३१२९| अनुदात्तेतश्च - |३|२| १४९ |' इति युच् । क्रौञ्च इति क्विनूप्रत्ययान्तत्वात् प्रज्ञादित्वादण् ॥
1
४४९ - विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत्- ॥
'पश्य दन्द्रमणान् हंसार्नरविन्द - समुत्सुकान् ॥१५॥
I
विलोक्येत्यादि - चन्द्रं विलोक्य द्योतनं साधु द्योतमानम् । '३१२९ | अनुदात्तेतश्च - ३ |२| १४९ । ' इति युच् । शोचनः शोचनशीलः । '३१३० | जुचङ्क्रम्य - ।३।२।१५० |' इत्यादिना युच् । रामो लक्ष्मणमवदत् । पश्य हंसान् दन्द्रमणान् शनैर्द्रमणशीलान् । द्वमेर्नित्यं कौटिल्य एव भवति नतु क्रियासम - भिहार इत्युक्तम् । तदन्ताद्युच् । अतो लोपः । यस्य हलः | अरविन्दसमुत्सु - कान् '६४१ । प्रसित |२| ३ | ४४ |' इति सप्तमीं विधाय 'सप्तमी' इति योगविभागात् सः ॥
४५० - कपिश् चङ्क्रमणो ऽद्यापि नो ऽसौ भवति गर्धनः ॥
कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम्. ॥१६॥ कपिरित्यादि - नासौ कपिः सुग्रीवो ऽद्यापि चङ्क्रमणः शनैर्गमनशीलो न भवति । यतो गर्धनो ऽभिलाषशीलः स्त्रीष्वित्यर्थात् । पूर्ववद्युच् । ताराश्च मां कोपनं कोपनशीलं तद्विषय एव कुर्वन्ति । कीदृश्यः । गगनस्य मण्डना भूषणाः । '३१३१॥ क्रुध - मण्डार्थेभ्यश्च | ३ |२| १५१ | ' इति युच् ॥ ४५१ - Sवैत्यप्यायितारं किं कमलानि रविं कपिः ॥
दीपितारं दिनissरम्भे निरस्त - ध्वान्त-संचयम् ॥१७॥ नावैतीत्यादि - किमसौ कपिः रविं नावैति नावगच्छति । कमलान्याप्यायितारं साधु वर्धयन्तम् । '३१२९| अनुदात्तेतश्च -१३।२।१२९ । ' इति प्राप्ते । '३१३२॥ न यः । ३ । २ । १५२ ।' इति प्रतिषिद्धे तृन्नेव भवति । ततश्च '६२७|न लोक - १२|२|६९॥' इति षष्ठीप्रतिषेधः । दिनारम्भे दीपितारं साधु दीप्यमानम् । पूर्ववद्युचि प्राप्ते
१ –'१०८३। रवणः शब्दनो, नान्दीवादी नान्दीकरः समौ ।' २ – '१०६७। गृभुस् तु गर्धनः । लुब्धो ऽभिलाषुकस तृष्णकू, समौ लोलुप-लोलुभौ । ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com