________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६५ एता इत्यादि-एता धाराः पतन्त्यो द्वेषिण्य इव द्वेषणशीला इव जनं रागिणं रागशीलम् । अनपकारिणमनपराधशीलं पीडयन्ति । देवानुरोधिन्यः भाग्यानुरोधात् प्रवर्तनशीलाः। पूर्ववत् घिनुण् । घिनुणि च 'रोल्पसंख्यानम्' इत्यनुनासिकलोपः । कृताननुनासिकनिर्देशाद्वा लोपनिपातनम् ॥ ४४४-कुर्याद् योगिनमप्येष स्फूर्जा-वान् परिमोहिनम् ॥
त्यागिनं सुख-दुःखस्य परिक्षेप्यम्भसामृतुः ॥ १० ॥ कुर्यादित्यादि-एष ऋतुरम्भसां जलानां परिक्षेपी परित्यजनशीलः । कर्मणि षष्ठी । योगिनमपि योगशीलमपि । सुखदुःखस्य त्यागिनं त्यागशीलम् । कमणि षष्ठी । परिमोहिनं परिमोहनशीलम् । कुर्यात् । कीदृशः । स्फूर्जावान् वज्रनिर्घोषयुक्तः । पूर्ववद् धिनुण् ॥ ४४५-विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम् ॥
पर्जन्यं चातकः पक्षी निकृन्तनिव मानसम्. ॥११॥ विकत्थीत्यादि-चातको मानसं निकृन्तन्निव खण्डयन्निव । प्रत्तं प्रदत्तम् । '३०७८। अच उपसर्गात् तः ७।११४७।' जलं याचत इति प्रधानं कर्म । पर्जन्यमित्यकथितम् । विकत्थी विकत्थनशील इव पर्जन्योऽपि मद्यं जलं ददाति । इवशब्दो लुप्तोऽत्र द्रष्टव्यः । अविश्रम्भी अविश्वासशीलः । मानसखण्डनात् '३१२३। वो कष-लस-३।२।१४३।' इति घिनुण् ॥ ४४६-अलापिनो भविष्यन्ति कदा वेते ऽपलाषिणः.' ॥
प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः॥१२॥ प्रलापिन इत्यादि-एते पापदर्दुराः पापाश्च ते दर्दुराश्चेत्याक्रोशाभिधानम् । कदा नु अपलाषिणो भविष्यन्ति । अपलषणशीलाः व्यपगतकामा इत्यर्थः । '९५३। लष कान्तौ ।' '३१२४। अपे च लषः ।३।२।१४४।' इति घिनुण् । प्रलापिनः प्रलपनशीलाः प्रमाथिनः प्रमथनशीलाः । चेतसामित्यर्थात् । ३१२५/प्रे. लप-३।२।१४५।' इत्यादिना धिनुण्। अत एव वियुक्तानां मादृशां हिंसकाः हिंसनशीलाः । इत्येवं विललाप । '३१२६॥ निन्द हिंस-३।२।१४६।' इत्यादिना वुज ॥ ४४७-निन्दको रजनिमन्यं दिवसं क्लेशको निशाम् ॥
प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः ॥१३॥ निन्दक इत्यादि-काकुत्स्थो दिवसं रजनिमन्यं रजनीमात्मानं मन्यमानं घनान्धकारित्वात् । '२९९३। आत्ममाने खश च ।३२६८३।। २९४३। खित्यनव्ययस्य ।६।३।३६॥' इति इस्वत्वम् । निशां च प्रावृषि कथमप्यनैषीत् नीतवान् । निन्दकः निन्दनशीलः । नक्तंदिनस्येत्यर्थात् । क्लेशकः क्लेशनशीलः । परिदेवकः परिदेवनशीलः । भास्मन इत्यर्थात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com