________________
१६४ भट्टिकाव्ये – द्वितीयेऽधिकारकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
किं तद्विलपनमित्याह
४३९- 'भ्रमी कदम्ब - संभिन्नः पवनः शमिनामपि ॥
क्लमि त्वं कुरुतेऽत्यर्थं मेघ - शीकर - शीतलः. ॥ ५ ॥ भ्रमीत्यादि-भ्रमी भ्रमणशीलः । कदम्बसंभिन्नः कदम्बगन्धसंश्लिष्टः शमिनामपि शमनशीलानामपि क्कुमित्वं कुरुते भत्यर्थं ग्लानिं कुरुते । '३१२१॥ शमित्यष्टाभ्यो घिनुण् ।३।२।१४१।' । '२७६३ । नोदात्तोपदेश | ७|३|३४|' इत्या• दिना उपधावृद्धिप्रतिषेधः ॥
४४० - संज्वारिणैव मनसा ध्वान्तमायासिना मया ॥
द्रोहि खेद्योत - संपर्क नयनाऽमोषि दुःसहम् ॥ ६ ॥ संज्वारिणेत्यादि - मयैतत् ध्वान्तं तमो दुःसहं दुःखेन सह्यत इति । मनसा करणभूतेन । कीदृशेन । संज्वारिणेव रोगशीलेनेव । आयासिना आयासशीलेन मयेति । द्रोहि अपकारशीलम् । ध्वान्तं खद्योतसंपर्क ज्योतिरिङ्गणसंसर्गशीलम् । नयनामोषि चक्षुर्मोषणशीलम् । '३१२२ | संपृचानुरुध-।३।२।१४२।' इत्यादिना सर्वे घिनुणन्ताः ॥
४४१ - कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ॥
अभ्याघातिभिरा॑मिश्राश् चातकैः परिराटिभिः ॥७॥
●
कुर्वन्तीत्यादि ॥ एता विद्युतः परिदेविनं परिदेवनशीलं कुर्वन्ति । मामित्यर्थात् । कीदृश्यः । परिसारिण्यः परिसरणशीलाः । चातकैः पक्षिविशेषैः परिराटिभिः परिरटनशीलैः । एवंचाभ्याघातिमिः अभिहननशीलैः । दुःखोत्पादनात् । आमिश्रा युक्ता विद्युतः । पूर्ववद्विनुण् ॥
४४२ - संसर्गी परिदाहव शीतो ऽप्याभाति शीकरः, ॥
सोढुमाक्रीडिनो ऽशक्याः शिखिनः परिवादिनः ॥८॥
I
संसर्गीत्यादि - संसर्गी संसर्जनशीलः । शीतोऽपि शीकरो बिन्दुः । परिदाहीव परिदहनशील इवाभाति । शिखिनश्च मयूराः सोढुमशक्याः । भक्रीडिनो नर्तनशीलाः । परिवादिनः परिवदनशीला इव । इवशब्दश्चात्र लुप्तो द्रष्टव्यः । पूर्ववद् घिनुण् ॥
४४३ - एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् ॥
पीडयन्ति जनं धाराः पतन्त्यो ऽनपकारिणम् ॥९॥
१-‘९५। धारासंपात आसारः शीकरोऽम्बुकणाः स्मृताः । २ - ५४८ । समौ पतङ्गशलभौ, खद्योतो ज्योतिरिङ्गणः । ३ – ५३६ । अथ सारङ्गः स्तोककश् चातकः समाः ।" ४ – '५५९ | मयूरो बर्हिणो बहीं नीलकण्ठो भुजङ्ग-भुक् । शिखावलः शिखी केकी मेघनादालास्यपि ।' इति सर्वत्र ना० अ० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com