________________
तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६३ ४३६-तर्पणं प्रजनिष्णूनां शस्यानाम-मलं पयः॥
रोचिष्णवः स-विस्फूर्जा मुमुचुर् भिन्न-वद् धनाः॥२॥ तर्पणमित्यादि-घना अमलं पयो मुमुचुः । भिन्नवत् भिन्ना इव । कीदृशं पयः । तर्पणं शस्थानां तर्पणं तर्पयतीति २८४१॥ कृत्यल्युटो बहुलम् ।३।२।११३॥' इति कर्तरि ल्युट् । प्रजनिष्णूनां साधु प्रादुर्भवताम् । रोचिष्णवः साधु दीप्यमानाः । सविस्फूर्जाः सवज्रनिस्वनाः । '३११६॥ अलंकृञ्-३।२।१३६।' इत्यादिना इष्णुच् ॥ ४३७-निराकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः॥
अलंकरिष्णवो भान्तस् तर्डित्वन्तश् चरिष्णवः ॥३॥ निरेत्यादि-भानुं निराकरिष्णवो निराकरणशीला घनाः पयो मुमुचुरिति योज्यम् । दिवमभितो वर्तिष्णव आकाशमभितो वर्तनस्वभावाः । पूर्वपश्चिमयोवर्तनहेतुत्वात् । पर्यभिभ्यां सर्वोभयार्थे तसिः । 'अभितःपरितः-' इति द्वितीया । तडित्वन्तः सविद्युतः । अत एव भान्तो दीप्यमानाः । एवं च कृत्वा अलंकरिष्णवोऽलङ्करणशीला इव । दिशश्चरिष्णवः इतस्ततो गमनशीलाः । पूर्ववदिष्णुच् ॥ ४३८-तान् विलोक्या ऽसहिष्णुः सन्
विललापौन्मदिष्णु-वत् ॥ वसन् माल्यवति ग्लास्तू
रामो जिष्णुर-धृष्णु-वत्. ॥ ४ ॥ तानित्यादि ॥ तान् घनान्विलोक्य असहिष्णुरसहनशीलो रामः माल्यवति पर्वते वसन्विललाप । उन्मदिष्णुवत् उन्मदनशीलः उन्मत्तस्तद्वत् । पूर्ववदिष्णुच् । ग्लास्नुः ग्लानशीलः । जिष्णुर्जयशीलः । अहष्णुवदप्रगल्भ इव । शोकाभिभूतत्वात् । '३११९। ग्ला-जि-स्थश्च ग्सुः ।३।२।१३९।' । ष्णुरिति '३१२०। त्रसिगृधि-३।२।१४०।' इत्यादिना क्नुः ॥
१-३६३॥ वृक्षाऽऽदीनां फलं शस्यम्' २-६६५। विभ्राड् भ्राजिष्णु-रोचिष्णू' इति ना० अ०। ३-१०७५। निराकरिष्णुः क्षिप्नुः स्यात्' । ४।५-१०७४। उत्पतिष्णुस् तूत्पतिता, ऽलंकरिष्णुस् तु मण्डितः । भूष्णुर् भविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ ।' ६*९०। अभ्रं मेघो वारिवाहः स्तनयिनुर् बलाहकः। धाराधरो जल-धरस् तडित्वान् वारिदोऽम्बुभृत् ।' ७-१११९। चरिष्णुजङ्गम-चरम्'। ८-१०७६ । सहिष्णुः सहनः क्षन्ता'। ९-१०६८। सोन्मादस् तून्मदिष्णुः स्यात्' । १०-६२१॥ ग्लानग्लास्तू, आमयावी विकृतो व्याधितो ऽपटुः' । ११-८४२। जेता जिष्णुशू च जित्वरः।' इति सर्वत्र ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com