________________
१६२ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः,
1
नामेत्यादि । वानरेन्द्रः सुग्रीवः किष्किन्धाद्रि न्यविशत निविष्टवान् । ' २६८३। नेर्विशः | १ | ३ | १७ | ' इति तङ् । भशनैः सुष्ठु कपिभिः स्तूयमानः । वर्तमाने लट् । तस्य कर्मणि विहितत्वात् । '३१०३ । लक्षण हेत्वोः क्रियायाः - |३| २।१२६।' इति शानच् । नामग्राहं नाम गृहीत्वा । '३३८० । नाइया दिशि प्रहो: १३ | ४|५८|' इति णमुलं । समन्तात्सर्वतः । विराजन् शोभमानः । अत्र परस्मैपदसंज्ञकः शतृप्रत्ययः । किं कृत्वा । रघुवृषभयोरन्वग्भावं अनुकूलो भूत्वा । भन्वक्पूर्वाद्भवतेः '३३८६। अन्वच्यानुलोम्ये | ३ | ४ |६४ |' इति णमुल् । तदनुकूलवर्तित्वाद्विराजन् । कदा न्यविशत | अभ्यर्णे निकटे । अम्भःपतनसमये प्रावृषीत्यर्थः । पर्णली भूतसानुं पर्णानि सन्ति येषामिति सिध्मादिपाठाल्लच् । तदन्तादभूततद्भावे चिचः । पर्णलीभूताः सानव एकदेशा यस्याद्रेः । मधुक्षीबा मधुमत्ता गुञ्जन्तो द्विरेफा यत्र । क्षीव इति '३०३५ | अनुपसर्गात् फुल्लक्षीब- कृशोल्लाघाः | ८|२|५५ ।' इति निपातितः । ४०७ | श्रीबृ मदे ।' इत्यस्मात् क्तप्रत्ययस्य लोप इडभावश्च निपात्यते । गुञ्जेर्लट् । क्वचित् प्रथमासमानाधिकरणेऽपि शतृप्रत्ययः ॥
I
I
इति सोपपदकृतः ॥
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री- भट्टिकाव्येद्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नामः षष्ठः सर्गः पर्यवसितः ।
सप्तमः सर्गः ॥
इतस्ताच्छीलिकं कृतमधिकृत्योच्यते । ताच्छीलिकमित्युपलक्षणम् । तद्धर्मतरसाधुकारिष्वपि द्रष्टव्यम् । यतः '३११४ | आक्के स्तच्छील तद्धर्म-तत्साधुकारिषु | ३ |२| १५४ |' इति तत्राधिक्रियते
४३५ - ततः कर्ता वनाऽऽकम्पं ववौ वर्षा - प्रेभञ्जनः ॥
"
नभः पूरयितारश्च समुन्नेमुः पयोधराः ॥ १ ॥
तत इत्यादि ॥ ततः प्रवेशानन्तरं वर्षाप्रभञ्जनः प्रावृङ्घातो ववौ वाति स्म । ‘११२४। वा गति-गन्धनयो:' इति । कर्ता वनाकम्पं साधु कुर्वन् । '३११५ । तृन् |३|२| १३५।' इति तृन् । '६२७१ न लोक | २|३|६९ |' इति षष्ठीप्रतिषेधः । पयोधरा मेघाश्च समुन्नेमुः समुचताः । कीदृशाः । नभः पूरयितारः । तृन् ॥
१–‘१४१। स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा:' । २ - ७० । नभस्वद् वात-पवन पवमानप्रभञ्जनाः' । ३ – १३७२ । स्त्री - स्तनादौ पयोधरौ' । ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com