________________
१५८ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे प्रथमो वर्गः,
C
शब्दाच्छयेन चिदादिग्रहणम् । अभ्यर्थो हि तदाकार इष्टकाचय इत्युच्यते तारेणाग्निरपि ॥
४२० - मांस विक्रयिणः कर्म व्याधस्यो ऽपि विगर्हितम् ॥
मां नता भवता ऽकारि निःशङ्कं पाप-दृश्वना. १२९
मांसेत्यादि - मांसविक्रयिणः कुत्सितकर्मकारिणो व्याधस्यापि विगर्हितं निन्दितम् । ३००३ । कर्मणीनिविक्रियः | ३ |२| १३ | ' इति इनिः । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । निकृष्टकर्मकरणेनेति यद्भवता पापदृश्वना पापं दृष्टवता । ‘३००४। दृशेः क्वनिप् । ३।२।९४ |' | '३५५ | न संयोगाद्वमन्तात् | ६ |४| - १३७|' इति अल्लोपप्रतिषेधः । कर्म अकारि कृतम् । कर्मणि लुङ् । निःशङ्कं शङ्कां त्यक्त्वा । किं कुर्वता । मां घ्नता मारयता । हन्तेः शतरि '२३६३ | गम-हन-|६|४|९८|' इत्युपधालोपः । ' ३५८ । हो हन्तेः | ७|३|५४ |' इति कुत्वम् ॥ ४२१ - बुद्धिपूर्व ध्रुवन् न त्वा राज - कृत्वा पिता खलम् ॥
सहयुध्वानमन्येन यो ऽहिनो माम॑नासम् ॥ १३० ॥
बुद्धिपूर्वमित्यादि - स्वत्पिता त्वां खलं असाधुचरितं ध्रुवन् गच्छन् '१४९२ । ध्रु गतिस्थैर्ययोः' इति तुदादौ पठ्यते । तस्य गतौ ज्ञानार्थे वर्तमानस्य शतरि विकरणलोपे उवङादेशे रूपम्। यन्न राजकृत्वा । कस्य तदेत्यर्थात् । ' ३००५ । राजनि युधि कृञः | ३ |२| १५ | ' इति वनिप् । वत्तस्य बुद्धिपूर्वम् ध्रुवमवश्यं तस्येति व्याख्याने कृत्प्रयोगे कर्मणि षष्ट्या भवितव्यम् । यस्त्वं मामनागसमपापमन्येन सहयुध्वानं अन्येन सुग्रीवेण सह योद्धुं प्रवृत्तम् । '३००६। सहे च | ३ |२|९६ ।' इति क्वनिप् । अहिनः हिंसितवान् । हिंसेर्लङि मध्यमपुरुषैकवचने श्नमि श्वान्नलोपे हलब्यादिलोपे रुत्वे च रूपम् ॥
मांसार्थ इत इति चेदाह -
४२२ - पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः, ॥ कौशल्या - ज ! शशाssदीनां तेषां नैको ऽप्यहं कपिः.
I
पञ्च पञ्चेत्यादि - हे कौशल्याज कौशल्याजात | '३००७ । सप्तम्यां जनेर्ड: १३।२।९७।' ये पञ्च पञ्चनखाः । ' शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः ' इति । कृतजैः कृतयुगजातैः । सप्तम्यां जनेर्डः । द्विजैर्द्विजतैः । ‘३०११। अन्येध्वपि दृश्यते || ३ |२| १०११' इति डः । सप्तम्यामित्युपलक्षणम् । असप्तम्यामपि दृश्यते । भक्ष्याः भक्षणीयाः प्रोक्ताः । तेषामहमेको ऽपि न भविता अहं कपिः । तत्किमिति हतोऽहं त्वयेति ॥
१ - ७९२ आगोऽपराधो मन्तुश् च' इति सर्वत्र ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com