________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५७
२१.३।' इति चकाराणिनिः । वणवेदनया ग्लायन् ग्लानिमुपगच्छन् । साधुभमन्यं साधुमात्मानं मन्यमानं रामम् । तेनैव खश् । तस्मिन् सार्वधातुके परतो दिवादित्वात् श्यन् । पूर्वपदस्य मुम् । असाधुवदसाधुमिव । असाधुना तुल्यं वर्तते इति वतिः ॥ ४१७-'मृषा ऽसि त्वं हविर्-याजी राघव! छद्म-तापसः॥
अन्य-व्यासक्त-घातित्वाद् ब्रह्मघ्नां पाप-संमितः, १२६ मृषेत्यादि-हे राघव ! त्वं छद्मना तापसः स त्वं मृषैव मिथ्यैव हविर्याजी हविषा करणेनेष्टवानसि न लोकप्राप्तय इत्यभिप्रायः । '२९९६ । करणे यजः ।३।२।०५।' इति भूते णिनिः। इतःप्रभृति भूत इत्यधिक्रियते । यतो ब्रह्मनां पापसंमितः ब्रह्म हतवन्ति इति '२९९८॥ ब्रह्म-३।२।०७।' इत्यादिना विप् । तेषां पापेन तुल्यः। कुतः। अन्यव्यासक्तघातित्वात् अन्यस्मिन् सुग्रीवे व्यासक्तं मां हतवान् । '२९९७। कर्मणि हनः ।३।२।०६।' इति णिनिः । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । यदि सुग्रीवेण मम विरोधः किं तवायातमिति कुत्सितहननम् ॥
तदेव दर्शयन्नाह४१८-पाप-कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः॥
मामपापं दुराचार ! किं निहत्या ऽभिधास्यसि. १२७ पापकृदित्यादि-हे दुराचार ! मामपापं निहत्य पापकृत् कृतकिल्बिषः राज्ञो दशरथस्य पुण्यकृतः सुतः सुकृतां मध्ये किममिधास्यसि वक्ष्यसि । किं क्षेपे । नकिंचिदभिधातव्यमस्तीति भावः। सर्वत्र २९९९।सुकर्म-पाप-1३।२।०९।' इत्यादिना क्विप् ॥ ४१९-अग्नि-चित् सोम-सुद् राजा रथ-चक्र-चिदाऽऽदिषु ॥
अनलेष्विष्टवान् कस्मान् न त्वया अपेक्षितः पिता.॥ अग्निचिदित्यादि-कस्मात्त्वया पिता नापेक्षितः नानुवृत्तः । येनैवं कृतवानसीति। कीदृशः।अग्निधित् आहिताग्निः। अग्नि चितवानिति '३००।अग्नौ चेः ३।२।९।' इति किए । सोमसुत् सोमं सुतवान् सोमयाजी । ३०००। सोमे सुजः ।३।२।९०।' इति किप् । मनलेषु अग्निषु इष्टवान् । रथचक्रचिदादिषु रथचक्रवचीयत इति '३००२। कर्मण्यड्याख्यायाम् ।३।२।१२।' इति कि । भादि
१-१४८० । मृषा मिथ्या च वितथे ।' इति ना० अ० । २-९० न कुटेरायुधैर् हन्याद् युद्ध्यमानो रणे रिपून् । न कर्णिभिर् नापि दग्धैर् नाग्नि-ज्वलित-तेजनैः ।। १०४ अमाययैव वर्तेत न कथंचन मायया ।' मनुस्मृतिः अ०७ । इत्यादिराजधर्मान् स्मारयन्नाह-'छद्मतापसः' इति । '२३० कपटोऽस्त्री व्याज दम्भोपधयशू छनकैतवे ।३-७१७। चितवानग्निमग्निचित् ।' इति ना० अ०।
भ. का. १४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com