________________
१५६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
| ६ |४| ८३ । ' इति यणादेशः । तं रणे हन्तुं कपिना सुग्रीवेणाह्वाययत् अभिभवं कारितवान् । ह्वयतेर्हेतुमण्णिचि '२५८५ ॥ शा-च्छा | ७|३|३७|' इत्यादिना युक् ॥ ४१३ - तयोर् वानर सेनान्योः संप्रहारे तनुच्छिदम् ॥
वालिनो दूर भाग रामो बाणं प्राणा॒दम॑त्यजत् १२२ तयोरित्यादि — वानरसेनान्योः वानरस्वामिनोः '२७२। एरने काचः । ६।४।८२|' इति यण् । संप्रहारे युद्धे प्रवृत्ते रामो बाणमत्यजत् । वालिनस्तनुच्छिदं तनुं शरीरं छिनत्तीति पूर्ववत् क्विप् '१४६ | छे च | ६| ११७३ | ' इति तुक् । प्राणादं प्राणापहारिणम् । प्राणानत्तीति प्राणादम् । '२९७७ भदो नन्ने | ३|२६८।' इति विट् । दूरभाक् दूरमवस्थितो रामो दूरं भजत इति २९७६ | भजो 'ण्विः ||३|२।६२।' ॥
४१४ - वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम् ॥
बान्धवा॒ऽऽक्रोशिनो भेजुर॑नाथाः केकुभो दश. १२३
वालिनमित्यादि - रिपुघातिनं रिपून् हन्तुं शीलमस्येति '२९८८ । सुप्य जातौ णिनिः - १३|२|७८|' तं वालिनं पतितं दृष्ट्रा वानरा दश ककुभो दश दिशो भेजुः । अनाथाः सन्तः स्वामिनो हतत्वात् । बान्धवाक्रोशिनो बान्धव इत्र आक्रोशन्तीति ‘२९८९ | कर्तर्युपमाने | ३ |२| ७९ ॥ ' इति णिनिः ॥ ४१५-धिग् दाशरथमि॑त्र्यूचुर् मुनयो वन - वर्तिनः ॥ उपेयुर् मधु- पायिन्यः
क्रोशन्त्यस् तं कपि - स्त्रियः ॥ १२४ ॥
धिगित्यादि - येषां सत्यन्यस्थाने वृत्तौ च वन एवं वर्तितुं शास्त्रतो नियमः ते वनवर्तिनो मुनयः । २९९० । व्रते |३|२|८०|' इति णिनिः । धिगिमं दाशरथिमित्यूचुः उक्तवन्तः । येनानपराधे ऽपि वालिनीदृशं कृतमिति । कपिखियश्च वालिनमुपेयुः मधुपायिन्यः । आभीक्ष्ण्येन मधु पिबन्त्यः । २९९१ । बहुलमाभीये | ३ |२| ८१|' इति णिनिः । क्रोशन्त्यः । ' हा नाथ !' इति रुदन्त्यः ॥ ४१६ - राममुच्चैरुपालब्ध शूर-मानी कपि- प्रभुः ॥
व्रण-वेदनया ग्लायन् साधुं मन्यमे - साधुवत्. ॥१२५॥ राममित्यादि - कपिप्रभुर्वाली राममुचैर्महता शब्देनोपालब्ध उपालब्धवान् । लभिरात्मनेपद्यनिट् । तस्य लुङि '२२८१| झलो झलि |८|२|२६|' इति सिचो लोपः । ‘२२८०। झषस्तथोर्धोऽऽधः | ८ | २|४०|' | '५२ । झलां जश् झशि |८|४|५३ । ' । शूरमानी शूरमात्मानं मन्यमानः । २९९३। आत्ममाने खश्च ॥३॥
१ - १८२ । दिशस् तु ककुभः काष्ठा आशाश् च हरितश् च ताः ।' इति ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com