________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५५ '२४५८। इणो गा लुङि ।।४।४५' । '२२२३। गाति-स्था-।२।४।०७।' इति सिचो लुक् । भ्रातरं धुवन् अभिगच्छन् । '१११३। द्यु अभिगमने' अस्थादादि. कस्य वर्तमानसामीप्ये लटः शतरि उवडादेशे रूपम् । संख्ये युद्धे । भियो यङ् भीतेर्योक्ता । कर्मणि षष्ठी । भीतिं युञ्जन्नित्यर्थः । यजेः पूर्ववत् क्विन् । '३७६। युजेरसमासे ।७।११७१।' इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः । डकारः । कः कमिव । सिंहो मृगमिव धुवन् । घोषेण दिशः आपूरयन् । दिशन्ति इति दिशः पूर्ववत् क्विन् ॥ ४१०-व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः॥
बाणमुद्यतमायसीदिक्ष्वाकु-कुल-नन्दनः ॥ ११९ ॥ व्यायच्छेत्यादि-तयोालिसुग्रीवयोव्यच्छमानयोः कलहायमानयोः सदृशयोः समानयोः भेदे पृथक्त्वे मूढो भ्रान्तः सन् इक्ष्वाकुकुलनन्दनो रामो बाणमुद्यतं सज्जीकृतमायंसीत् उपसंहृतवान् । २७४२। समुदाङ्भ्यो यमो ग्रन्थे ११३१७५।' इति तङ् न भवति । अक–भिप्रायत्वात् । तत्र 'कत्रभिप्राये' इति वर्तते । २६९५। आडो यमहनः ।१।३।२८।' इत्यनेनापि न स्यात् सकर्मकत्वात् तत्र 'अकर्मकात्' इति वर्तते । समानपूर्वस्य दृशेः 'समानान्ययोश्च' इत्युपसंख्यानात् '४२९। त्यदादिषु-३।२।६०।' इत्यादिना कञ् । '१०१७। दृग्-दृश-व. तुषु ।६।३।०९।' इति समानस्य सभावः ॥ ४११-ऋष्यमूकमगात् क्लान्तः
कपिर मृग-सहग द्रुतम् ॥ किष्किन्धाऽद्रिसदाऽऽत्यर्थ
निष्पिष्टः कोष्णमुच्छ्रसन्. ॥ १२० ॥ ऋष्यमूकमित्यादि-कपिः सुग्रीवः किष्किन्धाद्रिसदा वालिना किं किं दधातीति किष्किन्धा गुहा । '२९१५। भातो ऽनुपसर्गे कः ।३।२।३।' पारस्करादिदर्शनात् पूर्वस्य सुडागमो मलोपः षत्वं च निपात्यते । तदुपलक्षितोऽद्रिः किष्किन्धाद्रिः। तत्र सीदतीति '२९७५। सत्सूद्विष-३।२।६।' इत्यादिना किए। तेनात्यर्थ निस्पिष्टः पीडितः । निष्पिष्टत्वात् क्लान्तः सन् ऋष्यमूकं मृगसदृक् द्रुतमगात् । समानोपपदात् दृशेः पूर्ववत् । किन् । कोष्णमीषदुष्णमुच्चसन् । '१०३३। कवं चोष्णे ।६।३।१०७।' इति चकारात् कोः कादेशः ॥ ४१२-कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम् ॥
अङ्गद-स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे. १२१ कृत्वेत्यादि-वालिगुहं सुग्रीवम् । वालिनं दुह्यतीति २९७५। सत्सू. ।३।२।६१॥' इत्यादिना विप् मालया सविशेषणं सचिह्नं कृत्वा भेदपरिज्ञानार्थ
रामः अङ्गदस्खं वालिनम् । अगदं सूत इति पूर्ववत् क्विन् । '२८॥ ओः सुपि Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com