________________
१५४ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः,
आढ्यमित्यादि-अनाढ्यमाढ्यं करोत्यनेनेति । २९७३। आन्य-सुभग१३।२।५६।' इत्यादिना करणे ख्युन् । आध्यङ्करणं विक्रान्तं यस्य वालिनः । भनाव्यः सन् विक्रान्तेनाढयो भूत इत्यर्थः । महिषस्य सुरद्विषो दुन्दुभेर्वधं मरणं यः कृतवान् दुष्करं कृच्छ्रसाध्यं प्रियङ्करणमिन्द्रस्य तुष्टिकरम् । अप्रियं प्रियं करोत्य. नेनेति पूर्ववत् ख्युन् ॥ ४०६-प्रियं-भावुकतां यातस् तं क्षिपन योजनं मृतम् ॥
स्वर्गे प्रियं-भविष्णुश च कृत्स्नं शक्तोऽप्यबाधयन्',॥ प्रियमित्यादि-तमेवं सुरद्विषं मृतं पादाङ्गुष्ठेन योजनमध्वानं क्षिपन् प्रेरयन् । क्षिपेस्तौदादिकस्योभयपदिनो रूपम् । प्रियम्भावुकतां यातस्तथा स्वर्ग प्रियम्भविष्णुश्चासीत् । '२९७४। कर्तरि भुवः-३।२।५७।' इत्यनेनाढ्यादिषूपपदेषु खिष्णुच्खुकजौ । शक्तो ऽपि समर्थो ऽपि कृत्स्वं लोकमित्यर्थात् । अबाधयन् अपीडयन् । '१६५१। बध संयमे' इति चौरादिकः तस्य शतरि रूपम् । स ईशस्त्वया शक्यो जेतुं यदित्वदत्राणां सामर्थ्य दृष्टमित्यभिप्रायेणाब्रवीत् सुग्रीवः॥
रामोऽपि तदभिप्रायं विदन् यत् कृतवान् तदाह४०७-जिज्ञासोः शक्तिमस्त्राणां रामो न्यून-धियः कपेः ॥
अभिनत् प्रतिपत्त्यर्थ सप्त व्योम-स्पृशस् तरून्. ॥ जिज्ञासोरित्यादि-अस्त्राणां शराणां शक्तिं जिज्ञासोः ज्ञातुमिच्छोः कपेः सुग्रीवस्य न्यूनधियः स्वल्पबुद्धेः । यतः प्रमाणान्तरेणापरिज्ञानात् प्रत्यक्षेण ज्ञातुमिच्छतीति प्रतिपत्त्यर्थ संप्रत्ययाथै रामः सप्त तरून् तालान् पतया स्थितान् एकेन शरेणाभिनत् व्योमस्पृशः । '४३२। स्पृशोऽनुदके क्विन् ।३।२।५८।' ॥ ४०८-ततो वालि-पशौ वध्ये राम-विंग्-जित-साध्वसः ॥ ___अभ्यभून निलयं भ्रातुः सुग्रीवो निनदन् दधृक् ॥
तत इत्यादि-ततस्तरुभेदादनन्तरं सुग्रीवो भ्रातुनिलयमभ्यभूत् अभिभूतवान्। कीदृशः । दधक् धृष्टः । '३७३। ऋत्विग्-३।२।५९।' इत्यादिना निपातितम् धृषेः क्विन् । द्विवचनम् । '३७७। क्विन्प्रत्ययस्य कुः ।।२।६२।' इति कुत्वं खकारः चत्वं ककारः । यस्माद्वालिनि पशाविव वध्ये वधाहें । रामेण ऋत्विजा याजकेन जितसाध्वसः अपनीतसाध्वसः तस्माद्दटक् । ऋतौ यजति ऋतुं वा यजति ऋतुप्रयुक्तो वा यजतीति ऋतुपूर्वाद्यजेः क्विन् । यजादित्वात् सम्प्रसारणम् । इदमृत्विक्शब्दनिर्वचनम् । रूढितस्तु याजयितृषु ब्राह्मणेषु क्विन्प्रत्ययस्य कुः । लिनदम् किलकिलाशब्दं कुर्वन् ॥ ४०९-गुहाया निरगाद् वाली सिंहो मृगमिव धुवन् ॥
भ्रातरं युङ् भियः संख्ये घोषणा ऽऽपूरयन् दिशः।। गुहाया इत्यादि-तस्य शब्दमाकर्ण्य गुहाया निरगाद्वाली निर्गतः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com