________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १५३ ४०२ - अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते ॥
चेतो वालि वधं राम ! क्लेशपहर्मुपस्थितम् ॥ १११ ॥ अतीत्यादि - हे राम ! मदीयं चेतो वालिवधं कर्मीभूतमुपस्थितं प्राप्तं न हि प्रतिपद्यते नैव प्रत्येति । यस्मात् कातरं व्याकुलम् । वालिनोऽतिबलयुक्तस्वात् । कीदृशं वधम् । क्केशापहम् दुःखस्योन्मूलकम् । पूर्ववडुः । अतिप्रियत्वाद्वाविधस्य । यस्य हि यत्प्रियं तत्सिद्धमपि असौ न प्रत्येति ॥
इति डाधिकारः ॥ उपस्थितोऽस्य वध इति कथं ज्ञायत इत्याह४०३ - शीर्ष - घातिनर्मायातमेरीणां त्वां विलोकयन् ॥ पतिघ्नी- लक्षणोपतां मन्येऽहं वालिनः श्रियम्. ११२ शीर्षेत्यादि - अरीणां शीर्षघातिनम् । '२९६८। कुमार-शीर्षयोणिनिः | ३ |२| ५१ | ' इति निपातनात् शिरसः शीर्षभावः । आायातं विलोकयन् वालिनः श्रियं पतिनीलक्षणोपेतामहं मन्ये । पतिं हन्ति यलक्षणं तेनोपेतामिवेतीवार्थोऽत्र द्रष्टव्यः । ‘२९७०। भमनुष्यकर्तृके च |३| २|५३ । ' इति ठक् । '२३६३ । गमहन|६|४|९८|' इत्युपधालोपः । ' ३५८ । हो हन्तेः | ७|३|५४ |' इति कुत्वम् ॥ ४०४ - शत्रुघ्नान् युधि हस्तिनो गिरीन् क्षिष्यन्न - कृत्रिमान् ॥ शिल्पिभिः पाणिधैः क्रुद्धस्
त्वया जय्यो ऽभ्युपाय -वान् ॥ ११३ ॥
।
शत्रुघ्नानित्यादि - किञ्च युधि संग्रामे वाली त्वया जय्यः जेतुं शक्यो यदि युष्मदखाणां शक्तिर्दृष्टा तां च द्रष्टुमिच्छामीति वक्ष्यमाणाभिप्रायः । ६५१ क्षय्यजय्यौ शक्यार्थे । ६ । १।८१|' इत्ययादेश निपातनम् । कीदृशः अभ्युपायवान् युद्धोपाययुक्तः । किं कुर्वन् । क्रुद्धः क्षिप्यन् गिरीन् । दिवादित्वाच्छ्यन् । अकृत्रि मान् देवनिर्मितान् । शत्रुघ्नान् शत्रून् हन्तीति । '२९७०। अमनुष्य | ३|२|५३|१ इति ठक् । हस्तिघ्न इव हस्तिघ्नः हन्तुं शक्तः । ' २९७१ । शक्तौ हस्ति कपाटयोः ३।२।५४ |' इति सूत्रस्य मनुष्यकर्तृकार्थारम्भकत्वात् । वाली चामनुष्यः । शिल्पिभिर्युद्धकुशलैः वानरैः सह क्षिष्यन् । सहार्थस्य गम्यमानत्वात् सहयोगे तृतीया । पाणिघैः पाणिवादकैः । ते हि हस्तियुद्धेऽन्यस्य वाद्यस्यासंभवात् हस्तिमुखमेव वादयित्वा गिरीन् प्रहरणान् क्षिप्यन्ति । २९७२ । पाणिघताडवौ शिल्पिनि | ३ |२| ५५ |' इति कर्तरि निपातनम् ॥ ४०५- आढ्यं करण-विक्रान्तो महिषस्य सुरद्विषः ॥
प्रियं - करणमिन्द्रस्य दुष्करं कृतवान् वधम् ॥ ११४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com