________________
१५२ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः,
राममित्यकथितम् । कीदृशं रामम् । बलिन्दमप्रख्यं विष्णुतुल्यम् । बलिं दमयतीति '२९६३। संज्ञायां भू-तू-वृजि-३।२।४' इत्यादिना खच् । अमन्तस्य मित्वहस्वत्वे । तथा विश्वं बिभर्तीति विश्वम्भरा तस्या अधिपं अधिपातीत्यधिपः । '२८९८। आतश्वोपसर्गे-३।११३६।' इति कः॥ ३९९-'वसुं-धरायां कृत्स्नायां नाऽस्ति वालि-समो बली, ॥
हृदयंगममैतत् त्वां ब्रवीमि, न पराभवम्. ॥१०८॥ वसुन्धरायामित्यादि-वसुन्धरायाम् । पूर्ववत् खच् । वालिना समो. ऽन्यो बली बलयुको नास्तीति हृदयङ्गमं मम । स्वानुभवं हि वस्तु हृदयङ्गममित्युच्यते। तेन संज्ञायामित्यधिकृत्य २९६४। गमश्च ।३।२।४७' इति खच् । न पुनस्त्वां पराभवमभिभवं ब्रवीमि ॥
इति खजधिकारः। एवंपराक्रमो ऽसौ तत्र किं त्वं करिष्यसीत्याह४००-दूर-गैरन्त-गैर् बाणैर् भवानत्यन्त-गः श्रियः॥
अपि संक्रन्दनस्य स्यात ऋद्धः, किमत वालिनः१०९ दूरगैरित्यादि-यतो भवान् क्रुद्धः सन् संक्रन्दनस्यापि शक्रस्यापि । '२८९६। नन्दि-ग्रहि । ३।११३४।' इत्यादिना ल्युः । बाणैः करणभूतैः । दूरगैः दूरं गच्छन्तीति । अन्तगैः कार्यसमापकैः । २९६५। अन्तात्यन्त-३।२।१८।' इत्यादिना डः। श्रियो लक्षम्या अत्यन्तगः विनाशयिता स्यात् । अत्यन्तं पर्यवसानं गच्छतीति । किं पुनर्वालिनो लक्ष्या अत्यन्तगो भवान्विनाशयितेति ॥ ४०१-वरेण तु मुनेर् वाली संजातो दस्युहो रणे ॥
___ अ-वार्य-प्रसरः प्रातरुद्यन्निव तमोऽपहः ॥ ११० ॥ __ वरेणेत्यादि-मुनेस्तु वरेण दस्युहः दस्यून् शत्रून् वध्यादिति । २९६६।
आशिषि हनः।३।२।४९।' डः। अतो रणे अवार्यप्रसरोऽनमिभवनीयगतिः सञ्जातः। क इव । तमोऽपह इव तमोऽपहः आदित्यः । तमोऽपहन्तीति । २९६७ । अपे क्लेशतमसोः ।३।२।५९।' इति डः । प्रातः प्रभाते उद्यन् उद्गच्छन् । उत्पूर्वादिणः शतरि इणो यण् । अवार्यप्रसरस्तद्वदसावपि । सर्व वाक्यं सावधारणं भवतीति प्रातरप्युद्यन्नवार्यप्रसर एवेति तेन सर्वकाले अस्थावार्यप्रसरत्वं सिद्धं न तु प्रातरेवोद्यन्नवार्यप्रसर इति ॥
१-५० । संक्रन्दनो दुश्यवनसू तराषाण मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षाः ।' २-७७६। रिपौ वैरि-सपत्नाऽरि, द्विषदद्वेषण-दर्हदः। द्विविपक्षाऽहिता-ऽमित्र-दस्य-शात्रवशत्रबः॥ ३-१४४९ । राहो ध्वान्ते गुणे तमः। इति सर्वत्र ना० अ० । तमाशब्दार्थास्त्रयः-तमः करि-हरिं सोमं प्रपीड्य कुरुते तैमः । चकोरात् सप्तमस्कान् यद् तद् युक्तं तमसोऽस्य वै ।।' इति कोशावतंसः। १-तमोऽधकारः। २-तमो राहुः। ३-तमो गुणः । स-तमस्कान् शोकयुक्तानित्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com