________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५१ चतुर्थी। यत एवं तस्मादेहि आगच्छ । सुग्रीवं वानरं मित्रं कुरु । कीदृशं । सर्वसहं सर्वं सहत इति २९५८। पू:सर्वयोः-३।२।४।' इति खच् ॥ ३९४-सर्व-कष-यशः-शाखं राम-कल्प-तरुं कपिः॥
आदायाऽभ्रं-कषं प्रायान् मलयं फल-शालिनम्.१०३ सर्वङ्कषेत्यादि-रामः कल्पतरुरिव यस्तमादाय गृहीत्वा कपिः प्रायात् गतः । कीदृशं रामम् । सर्वऋषयशःशाखं सर्व कषन्ति व्यामुवन्ति यानि यशांसि । २९५९ । सर्व-कूल-३।२।४२।' इत्यादिना खच् । तान्येव शाखा यस्य । फलशालिनमभिमतफलसम्पादनात् । अभ्रङ्कषमुच्चैस्तरं मलयम् । पूर्ववत् खच् ॥ ३९५-मेघ-करमिायान्तमृतुं रामं क्लमान्वितः॥
दृष्ट्वा मेने न सुग्रीवो वालि-भानु भयं-करम् ॥१०४॥ मेघङ्करमित्यादि-राममायान्तं दृष्ट्वा । सुग्रीवो वालिनं भानुमिव भयंकर भीतिजनकं न मेने न बुद्धवान् । २९६०। मेघर्ति-३।२।४३।' इत्यादिना खच् । कुमान्वितो ग्लानो वालिभानुना पीडितत्वात् । कीदृशं रामम् । मेघङ्करं ऋतुमिव प्रावृट्वालमिव । पूर्ववत् खच् ॥ ३९६-उपा-ट्यकुरुतां सख्यमन्योन्यस्य प्रियं-करौ, ॥
क्षेमं-कराणि कार्याणि पर्यालोचयतां ततः ॥ १०५॥ उपाग्नीत्यादि-उपाग्नि अग्निसमीपे रामसुग्रीवौ सख्यमकुरुतां 'इतःप्रभृत्यावयोः सख्यम्' इति । अन्योन्यस्य प्रियङ्करौ । २९६॥ क्षेम-प्रियमद्रेऽण्च ।३।२।४४।' इति चकारात् । ततः सख्यकरणानन्तरं क्षेमङ्कराणि हितजनकानि यथास्वं कार्याणि प्रत्यालोचयतां निरूपितवन्तावित्यर्थः । पटपुटेत्यत्र चुरादिकाण्डे धातौ लोच पठ्यते तस्य लङि रूपम् ॥ ३९७-आशितं-भवमुत्क्रुष्टं वलिगतं शयितं स्थितम् ॥
बह्वमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्. १०६ आशितम्भवमित्यादि-आशितम्भवमशनम् । '२९६२। आशिते भुवः करण-भावयोः ।३।२।४५।' इति खच् । उत्क्रुष्टं किलकिलायितम् । वलिगतं धावनम् । तथा शयितं स्थितं च कपीनां स्वेच्छया कृतं एतत्काकुत्स्थो बह्वमन्यत श्वाघितवान् । पुण्यभाज इमे यदेषां स्वेच्छाविहारिणां चेष्टितं, असाकं तु शोकसन्तप्तानां न किंचिदस्तीति । सर्वत्र भावे निष्ठा ॥ ३९८-ततो बलिं-दम-प्रख्यं कपि-विश्वं-भराऽधिपम् ॥
सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम्. १०७ तत इत्यादि-ततः कार्यालोचनानन्तरं सुग्रीवो ऽब्रवीत् । लङि '२४५२॥ ब्रुव ईद ।७।३।९३।' किमुक्तवान् । वालिनो युधि विक्रमं शौर्यमिति प्रधानं कर्म Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com