________________
१५० भट्टि काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः, लाटयोः-३।२॥३६॥' इति खश् । तां हृतां मृगयावहे गवेषयावः । २०४६ मृग अन्वेषणे' स्वार्थिकण्यन्तः । युवयोः पौरुषान्वितत्वात् कथं हृतेत्याह-छलेन छद्मना ॥
त्वं पुनः कस्य वेत्यत आह३९०-प्रत्यूचे मारुती रामम्-'अस्ति वालीति वानरः॥
शमयेदपि संग्रामे यो ललाटं-तपं रविम्. ॥ ९९ ॥ प्रत्यूच इत्यादि-रामं मारुतिः प्रत्यूचे प्रत्युक्तवान् । अस्ति वालीति नाम्ना कपीश्वरः यः संग्रामे युद्धे ललाटन्तपं सर्वेषामुपरि वर्तमानं रविं पूर्ववत् खश । शमयेत् पराजयेदिति सम्भावने लिङ् । वालिशब्दो नान्तः इदन्तश्च । तथा च 'वाली वालिश्च कथ्यते' इति शब्दभेदः ॥ ३९१-उग्रं-पश्येन सुग्रीवसू तेन भ्राता निराकृतः ॥
तस्य मित्रीयतो दूतः संप्राप्तोऽस्मि वशं-वदः, १०० उग्रम्पश्येनेत्यादि-तेन भ्राता उग्रम्पश्यता पापं विजानता । २९५२। उग्रम्पश्य-३।२।३७।' इत्यादिना निपातितम् । यश्च सुग्रीवो निराकृतोऽभिभूतस्तस्य हि दूतः प्राप्तो ऽस्मि । वशंवदः । वशमनुकूलं वदतीति वशंवदः । '२९३५। प्रिय-वशे वदः खच् ।३।२।३८' कीदृशस्य । मित्रीयतो मित्रमिच्छतः । '२६५७। सुप आत्मनः क्यच् ।३।१३।।
किं तेन सख्येति चेदाह३९२-प्रियं-वदो ऽपि नैवो ऽहं ब्रुवे मिथ्या परं-तप!, ॥
सख्या तेन दश-ग्रीवं निहन्तासि द्विषं-तपम्. ॥१०॥ प्रियंवद इत्यादि-प्रियंवदतया लोको मिथ्या वदति । अहं प्रियंवदोऽपि नैव मिथ्या ब्रुवे वदामि । पूर्ववत् खचू । परन्तप शत्रूणामुपतापयितः ।२९५४। द्विषत्-परयोः-३।२।३९।' इति खच् । तेन सुग्रीवेण सख्या मित्रेण दशग्रीवं निहन्तासि हनिष्यसि । हन्तेलुटि रूपम् । कीदृशं द्विषन्तपम् । शत्रूणामुपतायितारम् । पूर्ववत् खच् ॥ ३९३-वाचं-यमोऽहमनृते सत्यमेतद् ब्रवीमि ते ॥
एहि, सर्व-सहं मित्रं सुग्रीवं कुरु वानरम्.' ॥१०२॥ वाचंयम इत्यादि-२९५७ वाचंयम-पुरन्दरौ च ।६।३।६९।' इति मुमागमो निपात्यते । तस्मात् सत्यमेतत् पूर्वोक्तम् । ब्रवीमि ते तुभ्यम् । तादर्थं
१-१३८। सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ मनुस्मृतिः अ० ४ । इति मर्म जाननाह-'नवा ऽहं ब्रुवे मिथ्या' इत्यादि । २-७४९। तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः । इति ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com