________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽमिषेको नाम षष्ठः सर्गः - १४९
खासकरीः
: यतः कूलमुद्वहाः कूलमापूर्य वहन्त्यः । ' २९४६ । उदि कूले - 1३1२/३१।' इति खश् । गजैः कूलमुदुजैः कूलं भिन्दद्भिः कथं नासादितौ न व्यापादितौ इति ब्रूतं कथयतम् ॥
३८७- रामो वोचनूमन्तम् 'आवामत्रं लिहं गिरिम् ॥ ऐव विद्वन् ! पितुः कामात् पान्तावल्पं - पचान् मुनीन्. ॥ ९६ ॥
राम इत्यादि - हनुर्वदनैकदेशः स निन्दितो ऽस्यास्तीति निन्दायां मतुप् । ‘३५३९। अन्येषामपि दृश्यते | ६ | ३ | १३७ |' इति दीर्घः । ' हनूमान् हनुमानपि ' इति विश्वदर्शनात् । तस्य किल जातमात्रस्य आदित्यरथं गृह्णतो हनुद्वयं भग्नमिति श्रूयते । तं रामो ऽवोचत् उक्तवान् । तत् किमित्याह - हे विद्वन्, यदमुं गिरिमावामैव आगतौ तत् पितुः कामादमिप्रायात् । आङ्पूर्वादिणो लङि रूपम् । अभ्र लिहमुच्चैस्तरम् । अभ्रं लेढीति '२९४७ | वहाभ्रे लिहः | ३|२|३२|' इति खश् । किं कुर्वाणौ । पान्तौ रक्षन्तौ । मुनीन् अल्पम्पचान् अल्पसन्तुष्टान् । अल्पं पचन्तीति ‘२९४९ । मितनखे च | ३|२|३४|' इति मितेत्यर्थग्रहणात् खश । चकारस्यानुक्तसमुच्चयार्थत्वाद्वा ॥
I
कः पुनः पिता यदादेशादागतावित्यत आह३८८-अ-मितं-पचर्मीशानं सर्व- भोगीणमुत्तमम् ॥
आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥ ९७ ॥ अमितम्पचमित्यादि - आवयोः पितरं दशरथनामानं भुवि विख्यातं विद्धि जानीहि । '२४२५ | हु· झलभ्यो हेर्धिः | ६ | ४|१०१ । ' अमितम्पचं महासत्रिणं पूर्ववत् खश मुम् च । ततो नञ्समासः । ईशानमीशनशीलं स्वामिनमित्यर्थः । ‘३१०९। ताच्छील्य - ३।२।१२९ |' इत्यादिना चानशू । सर्वभोगणं सर्वसत्वभोगाय हितम् । '१६७० | आत्मन् - विश्वजन - |५|१|९|' इति खः । भोगशब्दोऽत्र शरीरवाची । '१९७ | अट्- कुपवाडू - |८|४|२| ' इत्यादिना णत्वम् ॥
यदि पितुरादेशादागतौ किमत्र गमनेनान्वेषयथ इत्याह३८९ - छलेन दयिता Sरण्याद् रक्षसा ऽरुं तुदेन नः ॥
अ- सूर्य - पश्यया मूर्त्या हृता, तां मृगयावहे . ' ॥ ९८ ॥ छलेनेत्यादि - नो ऽस्माकं दयिता अरण्याद्राक्षसेन हृता । कीदृशेन । भरुन्तुदेन मर्मस्पृशा । ‘२९५० । विध्वरुषोस्तुदः | ३ |२|३५|' इति खश् । मुम् । असूर्यम्पश्यया आदित्यगोप्यया मूर्त्या शरीरेणोपलक्षिता । '२९४१ । असूर्य-ल
१–'१४४६ । इच्छामनोभवौ कामौ ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com