________________
१४८ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः,
बलिनावित्यादि-युवां अमुं अद्रीन्द्रम् । कमात् कारणान्मिथः प्राप्तौ । '१११८॥ इण् गतौ ।' इत्यस्मात् '२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा ।३।३।१३१॥' इति यसि रूपम् । भूते लट् थस् । एतदाचक्षाथां कथयतम् । लोटि रूपम् । बलिनौ बलवन्तौ । यतः शङ्करेणापि महादेवेनापि दुर्गमं दुःखेन गम्यते । काविव । स्तम्बेरमाविव यथा मत्तद्विपौ प्रामुतस्तद्वत् । '२९२७। स्तम्ब-कर्णयोः-३।२।१३।' इत्यच् । कर्तरि हस्तिन्यभिधेये 'हस्तिसूचकयोः' इति वचनात् । शङ्कर इति '२९२८। शमि धातोः-३।२।१४।' इत्यच् ॥
दुर्गमत्वदर्शनायाह३८४-व्याप्तं गुहा-शयैः क्रूरैः क्रव्याद्भिः स-निशाचरैः ॥
तुङ्ग-शैल-तरु-छन्नं मानुषाणाम-गोचरम् ॥ ९३ ॥ व्याप्तमित्यादि-कीदृशमदीन्द्रं क्रव्यमपकमांसं भक्षयद्भिः । कव्योपपदा. ददेः '२९७८। कन्ये च ३।२।६९।' इति विद । करैः हिंसकैः सिंहादिमिः सनिशाचरैः राक्षससहितैाप्तम् । गुहाशयैः गुहायां शेरते इति शीङः २९२९॥ अधिकरणे शेतेः ।३।२।१५।' इत्यच् । तुङ्गाः उच्चाः शैलाः शिलायां भवा ये तरवस्तैश्छन्नं व्याप्तम् । अत एव मानुषाणामगोचरं अगम्यम् । ३।२९८॥ गोचरसञ्चर-१३।३।११९।' इत्यादिना निपातितः ॥
प्रागुक्तष्टाधिकारः । इति अवं खशादिप्रत्ययानाह३८५-सत्वमेजय-सिंहाऽऽव्यान् स्तनं-धय-सम-विषौ ॥
कथं नाडिंधमान् मार्गानांगतो विषमोपलान्. ॥९४ ॥ सत्वमित्यादि-युवामिमान् मार्गानागतौ । सत्वमेजयसिंहाढ्यान् । सत्व. मेजयन्ति ये सिंहाः । २९४१। एजेः खश ।३।२।२८।' । २९४२। अरुर्द्विषत् -६।३।६७।' इति मुम् । तैराढ्यान् व्याप्तान् । सिंहग्रहणं तद्वद्धिस्नोपलक्षणार्थ. म् । हिनस्तीति सिंहः । पृषोदरादित्वाद्वर्णविपर्ययः । नाडिन्धमानिति । उच्चनीचाधिरोहणात् मुहुर्मुहुनिःश्वासै डिं धमन्तीति '२९४५। नाडी-मुष्ट्योश्च ।३।२. ।३०।' इति खश । '२९४३। खित्यनव्ययस्य ।६।३।६६।' इति हस्वः । विषमोपलान् उन्नतपाषाणयुक्तान् । स्तनन्धयसमत्विषो बालवत्सुकुमारौ । सामर्थ्य पुन. युवयोरचिन्त्यम् । स्तनं धयतः पिबतः । २९४४। नासिका-स्तनयोः-३।२।२९।' इति खश । '२९४२। अरुषिद्-६।३।६७।' इति मुम् ॥ ३८६-उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्वहाः, ॥ ___ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥ ९५ ॥ उत्तीर्णावित्यादि-कथं वा केनोपायेन युवां सरितो नदीरत्तीर्णौ । भीमा१-१११५। उच्च-प्रांशूनतोदरोच्छ्रितास् तुङ्गे' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com