________________
तथा लक्ष्य-रूपे कथानके सुप्रीवाऽभिषेको नाम षष्ठः सर्गः- १४७ दिना कर्मधारयः । पुनः कीदृशं । शोकापनुदं शोकमपनुदति । २९१९॥ तुन्द. शोकयोः-३।२।५।' इति कः । भव्यग्रं सुचित्तमित्यर्थः ॥ ३८०-विश्वास-प्रद-वेषो ऽसौ पथि-प्रज्ञः समाहितः॥
चित्त-संख्यो जिगीषूणामुत्पपात नभसू-तलम्. ॥८९॥ विश्वासेत्यादि-असौ मारुतिर्नभस्तलमुत्पपात । विश्वासं प्रददातीति विश्वासप्रदः । २९२० प्रे दाज्ञः ।३।' इति कः । विश्वासप्रदो वेषो यस्य भिक्षुवेष इत्यर्थः । वेष्यते आत्मानेनेति ३१८८। अकर्तरि च कारके-३।३।१९।' इति घन् । ११७०। विप्लँ व्याप्तौ' इत्यस्य रूपम् । पन्थानं प्रजानातीति पथिप्रज्ञः समाहितः अभ्रान्तचित्तः 'इदमादिष्टं इदं च मया तत्र वक्तव्यम्' इति । जिगीषूणां जेतुमिच्छताम् । चित्तसंख्यः चित्तं संख्याति परिच्छिनत्तीति २९२१॥ समि ख्यः ।३।२।७।' इति कः ॥ ३८१-सुरा-परिव घूर्णद्भिः शाखिभिः पवनाऽऽहतैः ॥
ऋष्यमूकमंगाद् भृङ्गैः प्रगीतं साम-गैरिव. ॥९॥ सुरापैरित्यादि-मारुतिष्यमूकमगात् । शाखिभिरुपलक्षितम् । घूर्णद्भिः कम्पमानैः पवनाहतत्वात् । अत एव सुरापैरिव मत्तैरिव । '२९२२। गापोष्टक् ।३।२।८।' इत्यत्र 'पिबतेः सुरा-शीध्वोः' इति ठक् । प्रगीतं प्रगीयते ऽत्रेति । भधिकरणे क्तः । कै ङ्गैः सामगैरिव सामवेदपाठकैरिव साम गायन्तीति २९. २२गापोष्टक् ।३।२।८ ॥ ३८२-तं मनो-हरमागत्य गिरि वर्म-हरौ कपिः॥
वीरौ सुखा ऽऽहरो ऽवोचद् भिक्षु भिक्षाह-विग्रहः ॥ तमित्यादि-ऋष्यमूकं गिरिमागत्य कपिवीरौ रामलक्ष्मणौ अबोचत् उक्तवान् । कीदृशं । मनोहरं रम्यत्वात् । मनो हरतीति २९२३॥ हरतेरनुद्यमने ऽच् ।३।२।९।' वर्महरौ कवचं हतु क्षमौ । संभाव्यमानवयसावित्यर्थः । २९२४॥ वयसि च ।३।२।१०।' इत्यच् सुखाहरः सुखाहरणशीलः । '२९२५। आङि ताच्छील्ये ॥३२॥११॥' इत्यच् । भिक्षुः परिवाड्वेषः न कपिरूपः यतो विश्वासप्र. दवेष इत्युक्तम् । भिक्षार्ह विग्रहः भिक्षायोग्यशरीरः कृशत्वादित्यर्थः। भिक्षामहतीत्यच् ॥ ३८३-'बलिनावमुमद्रीन्द्रं युवां स्तम्बे-रमाविव ॥
आचक्षाथां मिथः कस्माच्छङ्करेणा ऽपि दुर्गमम् ॥१२॥ १-८२९। तनुत्रं वर्म दंशनम् ।' २–६३४। अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वमं विग्रहः ।।' ३–'७९९। दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः । मतगजो गजो नागः कुञ्जरो वारणः करी । इभः स्तम्बरमः पद्मी।' इति ना० अ० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com