________________
१४६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
-
प्रु- स्-हवः समभिहारे - |३|१|१४९ | ' इति वुन् । तत्र सममिहारग्रहणं साधुकारित्वोपलक्षणार्थम् ॥
३७७ - तौ वालि - प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः, ॥
' बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम् . ' ॥ ८६ ॥ तावित्यादि - तौ रामलक्ष्मणौ वालिनः प्रणिधी चरौ मत्वा सुग्रीवः कपिरचिन्तयत् चिन्तितवान् । प्रणिधीयते नियुज्यते कार्येषु प्रणिधिः । ' ३२७०। उपसर्गे घोः किः |३|३|१२|' बन्धुना भ्रात्रा विगृहीतो विरोधितः सन् कथं जीवको भूयासमिति । आशंसायां लिङ् । जीवेः '२९१२ | आशिषि च ३।१११५०।' इति वुन् ॥
I
इति निरुपपदकृदधिकारः ।
इतः प्रभृति '७८१ । तत्रोपपदं सप्तमीस्थम् | ३|१|१२|' इति अस्योपस्थापनेन कृतो दर्शयन्नाह -
३७८ - स शत्रु-लावौ मन्वानो राघवौ मलयं गिरिम् ॥
जगाम स - परीवारो व्योम - मायमिवोत्थितम् ॥ ८७ ॥
स इत्यादि- - स सुग्रीवः सपरीवारः सपरिकरः । '१०४४ । उपसर्गस्य घञि - | ६ | ३ | १२२|' इति दीर्घः । कपीना ममनुष्यत्वात् । मलयं गिरिं जगाम । राघवौ शत्रुलाचौ शत्रून् लुनातीति '२९१३। कर्मण्यण् | ३ | २|१|' शत्रूणामुन्मूलकाविति मन्वानोऽवगच्छन् । ‘१५६६ । मनु अवबोधने ।' इत्यस्मादात्मनेपदिनः '२४६६। तनादिकृञ्भ्य उः | ३|१|७९ | व्योममायमिवोत्थितं व्योम आकाशं मिमीत इति ' २९१४। हावामश्च | ३ | २२|' इत्यण् । नभः परिच्छेत्तुमिवोत्थितं कियत्प्रमाणमस्येति ॥
३७९ - शर्म - दं मारुतिं दूतं विषम-स्थः कपि - द्विपम् ॥
शोका॒ऽपन॒दम॑ व्यग्रं प्रायुङ्क्त कपि - कुञ्जरः ॥ ८८ ॥
शर्मदमित्यादि – कुपिकुञ्जरः सुग्रीवः हनूमन्तं दूतं प्रायुङ्क्त प्रस्थापितवान् '७४१। वृन्दारक- नाग- कुञ्जरैः | २|११६२ |' इत्यादिना कर्मधारयः सः । वृत्तान्तं ज्ञातुमित्यर्थात् प्रायुङ्क्त इति '२७३५ । प्रोपाभ्यां युजेः | १|३ | ६४ | ' इत्यात्मनेपदम् । '२५४३ | रुधादिभ्यः श्नम् | ३ | १|७८ | कपिकुञ्जरः किम्भूतः । विषमे दुर्गपर्वते तिष्ठतीति विषमस्थ: । '२९१६ | सुपिस्थः | ३ |२| ४|' इति कः । मारुतिं कीदृशं । शर्म कल्याणं ददातीति शर्मदः । २९१४ | आतोऽनुपसर्गे कः | ३|२|३|' इति कः । श्रेष्ठत्वमाह । कपिद्विपं कपिश्रेष्ठम् । द्वाभ्यां पिबतीति द्विपः । कपिरयं द्विप इव । ७३५ | उपमितं व्याघ्रादि - १२|१|५६॥' इत्या
1
१–‘७७७८ । यथार्हवर्णः प्रणिधिर॑पसर्पश् चरः स्पशः । चारश् च गूढपुरुषः ।' इति
ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com