________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४५ दह इत्यादि-मधुनो लेहै ङ्गः अहं दो । '२९०३। श्यायधा-३१११४१॥' इति णः । दावैर्वनाग्निमिरुप्रैः प्रचण्डैर्यथा गिरिदह्यते तद्वत् । अत्र को नायः नयतीति नायः उपायः ईप्सितप्रापकः । उभयत्र '२९०४। दु-न्योः-३।। ११४२।' इति णः । येन नायेन विगतज्वरः विगतपीडः स्यामिति । आशंसायां लिङ् । बत खेदे ॥ ३७४-समाविष्टं ग्रहेणेव ग्राहेणेवा ऽऽत्तमर्णवे ॥
दृष्ट्वा गृहान् स्मरस्यैव वनाऽन्तान् मम मानसम्.८३ समाविष्टमित्यादि-वनान्तान् वनपर्यन्तान् । सरस्य कामस्य गृहमिव । उन्मादकत्वात् । '२९०६। गेहे कः ।३।१११४४।' इति ग्रहः कः । अर्धचर्चादिपाठात् पुंलिङ्गता । दृष्ट्वा मम स्थितस्येत्यर्थात् योज्यम् । अन्यथा कथं समा. नकर्तृकत्वम् । मानसं चेतः ग्रहेणाङ्गारकादिना । समाविष्टमिव विगृहीतमिव । '२९०५। विभाषा ग्रहः ।३।१।१४३।' इति णप्रत्ययः । अचोऽपवादः । तत्र व्यवस्थितविभाषाविज्ञानात् जलचरे ग्राहः ज्योतिषि ग्रह इति जलचरे वाच्येऽचोपवादो णप्रत्ययः ज्योतिषि वाच्ये ऽच् प्रत्ययः । ग्राहेणेवात्तमर्णवे। भर्णः पानीयं यत्रास्तीति । '१९१६। केशाद्वो ऽन्यतरस्याम् ।५।२।१०९।' इत्यत्र 'अर्णसो लोपश्च' इति भूनि नित्ययोगे ऽतिशायने वा वः सलोपश्च । अर्णवे समुद्धे वर्तमानेन ग्राहेण नक्रादिना आत्तं गृहीतम् । आयूर्वस्य दाजः ३०७८॥ अच उपसर्गात्तः ७४।४७।' ॥ ३७५-वाताऽऽहति-चलच-छाखा नर्तका इव शाखिनः ॥
दुःसहा ही परिक्षिप्ताः क्वणगिरलि-गाथकैः ॥४॥ वातेत्यादि-ही कष्टं एते शाखिनः नर्तका इव । '२९०७। शिल्पिनि वुन् ।३।१।१४५ ।' दुःसहा दुःखेन सह्यन्त इति '३३०५। ईषद-३।३।१२६।' इत्यादिना खल । नर्तकैः साधर्म्यमाह । वाताहतिचलच्छाखा वाताहतिभिः चलन्त्यः शाखा बाहुलता इव येषां ते । अलयो भ्रमराः क्वणन्तः । गाथका गायना इव । '२९०४॥ गस्थकन् ।३।१।१४६॥' तैश्च परिक्षिप्ता परिवेष्टिता इति ॥ ३७६-एक-हायन-सारङ्ग-गती रघु-कुलोत्तमौ ॥
लवको शत्रु-शक्तीनामृष्यमूकमंगच्छताम्. ॥ ८५ ॥ एकहायनेत्यादि-रघुकुलोत्तमौ रामलक्ष्मणौ । ऋष्यमूकमगच्छतां गतवन्तौ । लङि रूपम् । हायनः संवत्सरः स एको यस्य सारङ्गस्य मृतस्य तस्येव गतिर्ययोः शीघ्रगामित्वात् । '२९१०। हश्च व्रीहि-कालयोः ।३।१।१४८' इति हा धातोयुंद । आतो युक् । तौ शत्रुशक्तीनां लवको अपनेतारौ। २९११॥
१- भूम निन्दा प्रशंसासु नित्ययोगेऽतिशायने।' इति मत्वर्थीय इत्यर्थः । २-१५२। संवत्सरो वत्सरो ऽब्दोहायनोऽस्त्री शरत् समाः। इति ना० अ० ।
भ. का. १३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com