________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १५९ ४२३-कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि, ॥
आत्माऽनुजस्य जिह्वेषि सौमित्रेस् त्वं कथं न वा. १३२ कथमित्यादि-स्वयमात्मना धर्मे दुष्टुः दुःस्थः सन् । 'अपदुःसुषु स्थः' इत्यौणादिकः कुप्रत्ययः । कथं प्रजाः पालयिष्यसि नैवेति भावः । ३००९। उपसर्गे च संज्ञायाम् ।३।२।९९।' इति जनेर्डः । कथं वा सौमित्रेातुरास्मानुजस्य कनीयसः । आत्मानमनुजात इति २०१०। अणौ कर्मणि-३।२।१०।' इति डः । न जिहेषि न लजसे ॥ ४२४-मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्रिय-जे रणे ॥ ____ लक्ष्मणा ऽधिज! दुवृत्त ! प्रयुक्तमनुजेन नः'. १३३
मन्य इत्यादि-किंजं स्वामहं कुतो ऽपि जातं न राजजातं मन्ये । '३००८॥ पञ्चम्यामजातौ ।३।२।१८।' इति डः । नन्तं मारयन्तम् । अक्षत्रियजे रणे क्षत्रियादजाते। हे लक्ष्मणाधिज लक्ष्मणाग्रज! दुर्वृत्त ! नोऽस्माकमनुजेन भ्रात्रा प्रयुकं प्रेरितम् । तत्र 'पञ्चम्यामजातौ' इत्युक्तं जातावपि दृश्यते अक्षत्रियज इति । 'उपसर्गे च संज्ञायाम्' इत्युक्तं असंज्ञायामपि दृश्यते । लक्ष्मणाधिज इति 'अनौ कर्मणि' इत्युक्तं अकर्मण्यपि दृश्यते । अनुज इति सर्वत्रान्येष्वपि दृश्यत इति डः ॥ इत्युपपदाधिकारः॥ ४२५-प्रत्यूचे वालिनं रामो-'नो ऽकृतं कृतवानहम् ॥ ___ यज्वभिः सुत्वभिः पूर्वर जैरद्भिश् च कपीश्वर! १३४
प्रत्यूच इत्यादि-रामो ऽपि वालिनं प्रत्यूचे प्रत्युक्तवान् । किमित्याह । हे कपीश्वर! पूर्वैर्जरद्भिवृद्धैः । ३०९२। जीर्यतेरतॄन् ।३।२।१०४।' यज्वभिः याज्ञिकैः सुत्वभिः सोमयाजिभिः । '३०९१॥ सु-यजोई निम् ॥३॥॥१०३।। नाकृतं कृतवानहं अपि तु कृतमेव कृतवानहम् । '८९९। निष्ठा ।२।२।३६।' इति भूते तक्तवतू ॥ ४२६-ते हि जालैर् गले पाशैम तिरश्चामुपसेदुषाम् ॥
ऊषुषां पर-दारैश च सार्धं निधनमैषिषुः ॥ १३५॥ त इत्यादि-यस्मात्ते पूर्ववृद्धाः जालैर्गले पाशैश्च तिरश्चां मृगपक्षिसरीसृपा
१-२ ब्राह्म प्राप्तेन संस्कार क्षत्रियेण यथाविधि । सर्वस्याऽस्य यथान्यायं कर्तव्यं परिरक्ष णम् ।' मनु० अ० ७ इति स्मृत्या राज्ञां प्रजारक्षणमेव मुख्यो धर्मः स च दुष्टाचरणेन न संपघेतेति द्योतयन्नाह-'कथं दुष्ठुः स्वयं धर्मे-' इत्यादि । २-ततो रामः परदारसेवनादिदुष्कर्मकरणात् दण्ड्य एव त्वं तथाभूतस्य च दण्डाकरणं '२० यदि न प्रणयाद्राजा दण्डं दण्ड्येष्वत. न्द्रितः । शूले मत्स्यानिवा ऽपक्ष्यन् दुर्बलान् बलवत्तराः।' म० अ०७ । इति स्मृते राज्ञां दोषायैवेति युक्तमेवैतदित्याह-'नाऽकृतं कृतवान्' इत्यादि। ३-६०५ प्रक्याः स्थविरो वृद्धो जीनो जीर्णो जरनपि' । ना० अ० । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com