________________
१४२ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
नन्दनानीत्यादि - तत उक्तादनन्तरं वीरौ राघवौ रामलक्ष्मणौ वनानि मेजतुः सेवितवन्तौ । एत्वाभ्यासलोपौ '२३०१ । तु-फल- 1६|४|१२२|' इत्यादिना । पाम्पानीति पम्पाया अदूरम् । '१२८२ | अदूरभवश्च |४| २|७०।' इत्य। मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । '१३०२। उच समवाये ।' अस्मादौणादिको सुम् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । '२८९६ । नन्दि - |३|१|१३४ |' इत्यादिना ल्युः । कर्मणि षष्ठी ॥
३६४ - 'भृङ्गाऽऽली - कोकिल - क्रुभिर् वाशनैः पश्य लक्ष्मण ! ॥
रोचनैर्भूषितां पम्पा -
मस्माकं हृदयाविधम् ॥ ७३ ॥
I
भृङ्गालीत्यादि - हे लक्ष्मण ! पम्पां पश्य । अस्माकं हृदयाविधम् । चेतःपीडयन्तीम् । हृदयं विध्यतीति किप् । '२४१२ । ग्रहि ज्या - १६।१११६ |' इत्यादिना संप्रसारणम् । १०३७ | नहि वृति - |६|३|११६ |' इति पूर्वपदस्य दीर्घः । भूषितां कामिः । भृङ्गालीमिः भ्रमरपङ्किमिः । कोकिलैः कुभिः क्रौञ्चैः । वाशनैः कूजद्भिः । रोचनैः शोभनैः । कुछ इति '३७३ | ऋत्विग् |३|२/५९ |' इत्यादिना क्विन् । निपातनसामर्थ्यादनुनासिकलोपाभावः । '५४ संयोगान्तस्य लोपः ॥८/२ |२३|' | '३७७ । क्विन्प्रत्ययस्य - १८/२/६२|' इति कुत्वम् ॥
३६५ - परिभावीणि ताराणां पश्य मन्धीनि चेतसाम् ॥ उद्भासीनि जले - जानि दुन्वन्त्यन्दयितं जनम् ॥ ७४ ॥
परिभावीनीत्यादि - जलेजानि पद्मानि पश्य । '९७२ । तत्पुरुषे कृति - | ६ | ३ | १४ |' इत्यादिना ऽलुकू सप्तम्याः । उद्भासीनि भासमानानि । अत एव ताराणां परिभावीणि तिरस्कर्तृणि । ततश्चेतसां मन्थीनि पीडाकराणि । अतो जनमदयितं प्रियारहितं दुन्वन्ति । १३३६ | दुहुँ उपतापे' सौवादिकः । मन्धोद्वासपरिमूभ्यो ग्रहादित्वाणिनिः ॥
३६६ - सर्वत्र दयितऽधीनं सुव्यक्तं रामणीयकम् ॥
"
येन जातं प्रियाऽपाये कद् वदं हंस - कोकिलम् ॥७५॥
सर्वत्रेत्यादि - हे लक्ष्मण ! सर्वत्र यत्किञ्चिद्रामणीयकं रमणीयस्य भावः । ‘१७९७। योपधात्-।५।१।१३२ ।' इति वुन् । तत्सर्वं दयिताधीनं दयितायत्तम् । ‘२०७९। अषडक्ष- |५|४|७|' इत्यादिनाध्युत्तरपदात्खः । सुव्यक्तं स्पष्टम् । कुतः । येन प्रियाया अभावे सति हंसकोकिलं हंसाश्च को किलाश्चेति शकुनित्वात् द्वन्द्वैकत्वम् । कद्वदं कुत्सितप्रलपितं वदतीति पचाद्यच् । कुत्सितं वदतीति
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com