________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १४१
नायस्यसीत्यादि - तपस्यन्ती तपश्चरन्ती कञ्चिन्नायस्यसि न खिद्यसे । तपश्चरणशीली भूतेत्यर्थः । ' २६७१। कर्मणो रोमन्थ - | ३|१|१५|' इति क्यङ् । 'तपसः परस्मैपदं च ।' गुरून् आचार्यादीन् सम्यक् यथावदनुवृत्वाऽत्तुषः तोषितवत्यसि । तुषेर्ण्यन्तस्य लुङि रूपम् । चडि णिलोपादि । यमान्मृत्योनदविजिष्ठाः नाभैषीः । पुण्यकृतां न मृत्युभयमित्यर्थः । ओविजेरात्मनेपदम् । लुङि सिच इट् । '२५३६ । विज इट् |१२|२| इति सिचो ङिखे न गुणः । निजायात्मीयाय तपसे । अतुषः तुष्टवत्यसि । '२३४३। पुषादि - 1३|१|५५१' इत्यङ् ॥
३६१ - अर्थाऽर्घ्यं मधुपर्काऽऽद्यमु॑पनीया॑ ऽsदराद॑सौ ॥
अर्चयित्वा फलैरण्यौ सर्वत्र । ऽऽख्यदनामयम् ॥७०॥
अथेत्यादि - अथानन्तरमसौ शबरी अर्घ्यमर्घार्थम् । '२०९३ । पादार्घाभ्यां |५|३ | २५ |' इति यत् । मधुपर्काद्यम् । दधिमधुमिश्रमुदकं मधुपर्कः तदाद्यं आदौ भवमाद्यं तदुपनीयादरात् फलैरर्चयित्वा । अच्यौं अर्चना हौं ण्वत् । रामलक्ष्मणौ सर्वत्रोक्तेषु अनामयं कल्याणं आख्यत्कथितवतीं । '२४३८ । अस्यति|३|१/५२॥ इत्यं ॥
I
इति प्रकीर्णकाः ।
अतः परं कृदधिकारः -
अथ कृदधिकारमाह- कृत्यानां कृदन्तर्भावे ऽपि भावकर्मणोः कृत्या इति विशेषप्रतिपादनार्थः पृथगधिकारः । शेषास्तु कृतः कर्तरि भवन्ति '७८१। तत्रोपपदं सप्तमीस्थम् | ३|१|१२|' इत्येतदधिकृतम् । यत्रैतन्नावतिष्ठते तान् कृतो दर्शयन्नाह -
३६२ - 'सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः, ॥
द्रुतं द्रष्टासि मैथिल्याः सैवर्मुक्त्वा तिरो ऽभवत् ॥
सख्यस्येत्यादि - सा शबरी तिरो ऽभवदन्तर्भूता । एवमुक्त्वा । किं तदित्याह - तव सख्यस्य सखित्वस्य । १७९१। सख्युर्यः | ५|१|१२६ ।' कर्मणि षष्ठी । कारकः सुग्रीवः । ‘२८९५ ण्वुल्तृचौ | ३|१|१३३|' इति ण्वुल् । स्वया सह मैत्री करिष्यति । कपिनन्दनः कपीनां नन्दयिता । ' २८९६ । नन्दि- प्रहि|३|१|१३४ |' इत्यादिना ख्युः । कुद्योगे षष्ठी । ततो द्रुतं द्रष्टासि मैथिल्याः । पूर्ववस्कर्तरि तृच् कर्मणि षष्ठी । असीति वर्तमाने लट् ॥
1
३६३ - नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ॥ वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ ॥७२॥
१ - '६१३। अनामयं स्यादारोग्यम् ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com