________________
१४० भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
न प्रणाय्य इत्यादि - महानुदयः स्वर्गापवर्गाणां यस्याः सा तथा हे महोदये ! देवकार्यविघाताय देवकार्य विहनिष्यामीति । '२१८० | भाववचनाच | ३ | ३ | ११ | ' इति भविष्यति घन् । '५८२ | तुमर्थाच्च भाववचनात् | २|३ | १५ |' इति चतुर्थी । प्रणाय्यो ऽसंमतो जनः । २८८९ । प्रणाय्यो ऽसंमतौ | ३|१|१२८|' इति निपातितम् । कच्चित् निकाय्यं गृहं ते तव नाधितिष्ठति नाधिवसति । '२८९०। पाय्य । ३ । १।१२९|' इत्यादिना निवासे चिनोतेर्निपूर्वात् ण्यदायादेशौ आदेः कुत्वं च । '५४२। अधि-शी- स्थाssसां कर्म | १|४ | ४६ |' इति कर्मसंज्ञा । धर्मद्रोही धर्मद्रोहशीलः ॥
३५८ - कुण्डपाय्यवतां कच्चिदग्निचित्यान्वतां तथा ॥ कथाभी रमसे नित्यमुपचाय्य वतां शुभे ! ॥ ६७ ॥
कुण्डपाय्यवतामित्यादि - कुण्डेन प्रीयते ऽत्र क्रतौ कुण्डपाय्यः क्रतुः । '२०९१। ऋतौ कुण्डपाय्य- संचाय्यौ |३|१|१३०|' इति निपातितम् । कञ्चित्क थाभी रमसे । '१७४ । ठूलोपे - | ६ | ३|११११' इति दीर्घः । तथाग्निचित्यावतां अहिताग्निकानां कथाभी रमसे । '२८९३ । चित्याग्निचित्ये च |३|१|१३२ ।' इति निपात्यते । अग्निचयनमग्निचित्या । भावे क्यप् । तुकू । तद्वतां यथोपचाय्यवतां उपचीयते इत्युपचाय्योऽग्निः । २८९२ । अग्नौ परिचाय्य - ३।१।१२११ ' इति निपातितः । उपपूर्वाचिनोतेर्ण्यदायादेशौ । तद्वतां कथाभी रमसे शुभे कल्याणि ॥
इति कृत्याधिकार | ॥ अथ प्रकीर्णकाः
क्षतः परं प्रकीर्णका::
३५९ - वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान् ॥ अजैषीः काम - संमोही, संप्राप्था विनयेन वा ॥६८॥
वर्धत इत्यादि - हे कातरचित्ते, तब तपो वर्धते तस्य च ये विघ्नास्तेषां वे नायकाः प्रणेतारस्तान् व्यजेष्ठाः जितवत्यसि । लुङि (२६८५ । विपसभ्यां जेः |१|३|९९|' इत्यात्मनेपदम् । कामसंमोहौ कच्चिदजैषीः जितवत्यसि । २२९७ सिचि वृद्धि: - /७/२/११' विनयेन वा संप्राप्याः संप्राप्तासि । कर्मणि लुङ् । '२२८१| झलो झलि |८|२|२६|' इति सिचो लोपः । अत्रानुक्तमपि कच्चिदिति पदमर्थायोज्यम् ॥
३६०-ना॑ ऽऽयस्यसि तपस्यन्ती, गुरून् सम्यर्गतूतुषः ॥ यमान नौदविजिष्ठास् त्वं, निजाय तपसे तुष' ६९
१ – ९१७ । पिठरः स्थाल्युखा कुण्डम् ।' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com