________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४३ '१०२८। रथ-वदयोश्च ।६।३।१०२।' इति कोः कदादेशः । दयितायां सत्या मधुरप्रलापमासीदित्यर्थः ॥ ३६७-पक्षिभिर् वितृदैर् यूना
शांखिभिः कुसुमोत्किरैः॥ अ-ज्ञो यो, यस्य वा ना ऽस्ति
प्रियः, प्रग्लो भवेन् न सः. ॥ ७६ ॥ पक्षिमिरित्यादि-१५४०। उत्तृदिर हिंसाऽनादरयोः।' इत्यस्मादिगुपध. लक्षणः कः । यूना वितृदैः हिंसकैः पक्षिभिः शाखिभिवृक्षश्च । बीमादित्वादिनिः । कुसुमोत्किरैः । उकिरन्ति उत्क्षिपन्तीत्युत्किराः । पूर्ववत्कः । कुसुमानामुत्किराः । कृद्योगलक्षणां षष्ठी विधाय समासः । तैहेतुभूतैः करणभूतैर्वा । स प्रग्लो न भवेत् । प्रकर्षेण ग्लायते प्रग्लः । २८९८। आतश्चोपसर्गे ॥३।१११३६॥' इति कः । योऽज्ञः गुणदोषानभिज्ञः । जानातीति ज्ञः पूर्ववत्कः । यस्य वा प्रियो जनो नास्ति तस्य प्रयोजनाभावः सर्वत्र विवेकित्वात् । प्रीणातीति प्रियः । पूर्ववत् कः ॥ ३६८-ध्वनीनामुद्धमैरैभिर मधूनामुद्धयैर् भृशम् ॥
आजिप्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम्.॥७॥ ध्वनीनामित्यादि-पतगैर्धमरैग्लपिताः पीडिताः वयम् । 'ग्ला-वा-वनु-वमा च' इति मित्त्वात् हस्वः । 'पतेरङ्गच पक्षिणि' इत्यौणादिकः । कीदृशैः । ध्वनीनामुद्धमैः ध्वनीन् कुर्वनिः । २३६०। पा-मा-धमा-७३।७४।' इति धमा. देशः । मधूनामुद्धयैः मधूनि पुनः पुनः पिबद्भिः । ९६८॥ धेट पाने' इत्यस्खायादेशः । आजिप्रैः पुष्पगन्धानां पुष्पगन्धान् जिघ्रद्भिः । पूर्ववजिघ्रादेशः । सर्वत्र '२८९९१ पा-घ्रा-ध्मा-धेट्-दृशः शः ।३।१।१३७॥' इति शः । कृयोगलक्षणा षष्ठी ॥ ३६९-धारयैः कुसुमोमीणां पारयैर् बाधितुं जनान् ॥
शाखिभिर् हा हता भूयो हृदयानामुदेजयैः ॥ ७८ ॥ धारयरित्यादि-हा कष्टं शाखिभिर्दुमैर्भूयोऽत्यर्थं वयं हताः । कीडशैः । हृदयानामुदेजयैः चेतसामुत्कम्पकैः । धारयैः कुसुमोरीणां कुसुमनिचयान धारयद्भिः । जनान् मद्विधान बाषितुं पीडयितुं पारयद्भिः समर्थैः । ९६६। एम् धारणे', '१९६० पालन-पूरणयोः', '२३३॥ एत॒ कम्पने च।' एभ्यो णिजन्तेभ्यः २९००। अनुपसर्गाल्लिम्प-विन्द-३।११३८' इत्यादिना शः ॥
१-३५३ । वृक्षो महीरुहः शाखी विटपी पादपसू तरुः । अनोकहः कुटः शालः पलाशी द्रु-द्रुमागमाः ॥ इति ना० भ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com