________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३७ ऽपि नाखेयो न खननीयः अपि तु खननीय एव । अपिशब्दः सम्भावनायाम् । वस्य कारणं समृत्यशालित्वम् । '२०६०। ई च खनः ।३।१११११॥' इति क्यबीकारौ । तस्य मन्युस्त्वया मार्योऽपनेयः। ते तव तेन च शोको मृज्यः १२८६२। मृजेर्विभाषा ॥३२॥११३॥' इति यद्विकल्पे ण्यत् ॥ ३४८-स राजसूय-याजीव तेजसा सूर्य-सन्निभः॥
अ-मृषोद्यं वदन् रुच्यो जगाहे द्यां निशाचरः ॥५७॥ स इत्यादि-स निशाचरो धामाकाशं जगाहे गतः। राजसूययाजीव । राज्ञा सूयते राजा वा अनेन सूत इति राजसूयः क्रतुः । तेनेष्टवान् स राज. सूययाजी । २९९६१ करणे यजः ।३।२।०५।' इति णिनिः । तद्वदित्यर्थः । रुच्यः प्रियो जातो रामखेत्यर्थात् । २०६५। राजसूय-३।११' इत्यादिना क्यबन्ता राजसूयादयः॥ ३४९-अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः॥
रत्नाऽन्न-पान-कुप्यानामाटतुर नष्टसंस्मृती. ॥ ५८ ॥ अकृष्टपच्या इत्यादि ततो निशाचरगमनानन्तरं दाशरथी रामलक्ष्मणावाटतुर्गतवन्तौ। कीदृशौ । नष्टा संस्मृतिः ययोः । केषां संस्मृतिः। रत्नानपान. कुप्यानाम् । रत्नानपानानि प्रसिद्धानि । कुप्यं स्वर्णरजताभ्यामन्यत् वस्तु तत् । संज्ञायां क्यप् । गुपेरादेः गकारस्य ककारः । कर्मणि षष्टी । लताः पश्यन्तौ । कृष्टे पच्यन्ते इति कष्टपच्याः। पूर्ववत् क्यप् । पश्चानसमासः। स्वयमेव पच्यन्ते यास्ता इत्यर्थः ॥ ३५०-समुत्तरन्ताव-व्यथ्यौ नदान भिद्योध्य-सन्निभान् ॥
सिध्य-तारामिव ख्यातां शबरीमापतुर् वने. ॥ ५९॥ समुत्तरन्तावित्यादि-तौ तस्मिन् वने शबरीमापतुः प्राप्तवन्तौ । भव्यथ्यौ न व्यथेते इति पूर्ववत् क्यप् । परिश्रमवर्जितावित्यर्थः । नदान् समुत्तरन्तौ । कीदृशान् । मियोपसमिभान् । मियोद्यौ नदविशेषौ । २०६६। मियोध्यौ
१५' इति पूर्ववत् निपातितम् । भिनत्ति कूलमिति भियः । उज्झत्युदुकमिति उच्यः। “१३८८। उज्ा उत्सर्गे'। दकारात्परस्य धकारो निपात्यते । तत्सहशान् नवान् । सितारामिव ख्याताम् । सिध्यन्त्यस्मिन्निति सिध्यः। '२०६७। पुष्य-सिध्यौ नक्षत्रे ।३।१११६।' इति निपातनात् । पुष्याख्यां तारा मिव ख्यातां शबरीम् ॥ ३५१-वसानां वल्कले शुद्धे
विपूयैः कृत-मेखलाम्॥ १-९७७) स्यात् कोशश् च हिरण्यं च हेम-रूप्ये कृताऽकृते । वाभ्यां यदन्यत् तब कुप्यम् ॥' इति ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com