________________
१३६ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः, आस्ते । २०५२। उपसर्या काल्या प्रजने ॥३॥१॥१०॥ इति निपातितम् । दण्डताडितः सन् दण्डस्थानीयोऽत्र वाली ॥ ३४४-तेन सङ्गतमार्येण रामा ऽजयं कुरु द्रुतम्.॥ ____ लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि.॥५३॥
तेनेत्यादि-हे राम! तेन वानरेण संगतं सख्यं अजय अनपायम् । न जी. यंत इत्यस्मिन् वाक्ये २०५३। अजय संगतम् ।३।१११०५।' इति निपातितम् । आदौ विशेष्यत्वेनोपात्तं संगतं तद्विशेषणमजय कुरु द्रुतं यावत्तस्यानेन बुष्मद्विघेन संगतं न भवति । आर्येण सदाचारेण । '२०७२। -हलोय॑त् । १२॥ ततः सङ्गतात् लकां प्राप्य गत्वा पापं पापीयांसं रावणं हनिष्यसि ।
ननु यावत्कार्य न सिध्यति तावत्संगतं गच्छति कृतकृत्यस्तु नैवेत्यत माह३४५-अनृतोद्यं न तत्रास्ति, सत्य-वद्यं ब्रवीम्यहम् ।।
मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि.॥५४॥ अनृतोद्यमित्यादि-सत्यमुद्यत इति कर्मणि यत् । अहं सत्यं वजे ब्रवीमीत्यर्थः । अनृतोद्यं तत्र सुग्रीवे नास्ति । अनृतमसत्यं उद्यं वचनं अनुतोधम् । भावे क्यप् । यजादित्वात्संप्रसारणम् । उभयत्रापि '२८५४ वदः सुपि क्यप् च ।३।१११०६।' इति चकाराद्यत् । यस्मादेवं तसान्मित्रभूयं मित्रभावं गतः । २०५५/ भुवो भावे ।३।१११०७। क्यप् । रिपुहत्यां करिष्यसि '२०५६। हनस्त च ॥३॥10॥' इति क्या तकारश्चान्तादेशः ३४६-आइत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः ।।
इत्यः शिष्येण गुरुवद् गृध्यमर्थमवाप्स्यसि. ॥५५॥ आहत्य इत्यादि तेन संगतः सन्, गृध्यममिलषणीयमवाप्स्यसि । '२०५९। ऋदुपधात्-३।११११०।' इति क्यप् । कीदृशः कीदृशेनेत्याह-आडत्यः भादरणीयः । वृत्येन वरणीयेन । स्तुत्यः स्तवाहः । जुष्येण सेव्येन हनूमत्प्रभृती. नाम् । क इव । शिष्येण गुरुरिव । यथोपाध्यायः शिष्येण शासनीयेन इत्यः अनु. गम्यस्तद्वदिति । '२०५७। एति-स्तु-शास्त्र-३।१११०९।' इत्यादिना क्यप् । इस्वस्थ तुक् ॥ ३४७-नाऽखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य-शालिनः,
मैन्युस् तस्य स्वया मार्यो, मृज्यः शोकशू च तेन ते.' • नाखेय इत्यादि-तस्य सुग्रीवस्य सद्भृत्यशालिनः हनूमदादिभृत्ययुक्तस्य । २०६१। भृजो ऽसंज्ञायाम् ।३।१।११२।' इति क्यप् । अन्यो द्वितीयः सागरो
१-६५२ । ग्रीवायां शिरोधिः कन्धरेत्यपि ।' २–१४५७) नर्हा-समुच्चयप्रश्न-शङ्का सम्भावनास्वपि । ३-१३६२॥ मन्युर् दैन्ये ऋतौ क्रुषि ।' इति सर्वत्र ना० अ०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com