________________
१३२ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः, दिनः श्नम् । अल्लोपः । एवमुक्तेन प्रकारेण वदन् दाशरथिः धनुषा शरम् अपृ. णक् पृणक्ति स्म । '१५५७। पृची संपर्के' । लङि नम् । हलङ्यादिलोपः । कुत्वम् ॥ इति श्नम् विकरणनिदर्शनम् ॥
इतः प्रकीर्णकश्लोकानाह३३१-न्यवर्तयत् सुमित्रा-भूस् तं चिकीर्षु जगत्-क्षयम् , ॥
ऐक्षेतामाश्रमादारांद् गिरिकल्पं पतत्रिणम् ॥४०॥ न्यवर्तयदित्यादि-तं रामं जगत्क्षयं चिकीर्षु कर्तुमिच्छुम् । सुमित्राभूलक्ष्मणो न्यवर्तयत् निवर्तितवान् । 'भ्रातः अलं कोपेन, त्वया साधै कः संग्रामें युद्धं दातुं समर्थः ? यदन्न युक्तं तत्प्रतिविधीयताम्' इति । भवनं भूः । सम्पदादित्वात् क्विप् । सुमित्रायां भूर्यस्य । ऐक्षेतां रामलक्ष्मणौ दृष्टवन्तौ । लङि रूपम् । पक्षिणं गिरिकल्पं महाप्रमाणत्वात् । आश्रमादारात् समीपे । '६११॥ दूरान्तिकाथैः-२।३।३४।' इति पञ्चमी ॥ ३३२-तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत , ॥ ___ 'मा वधिष्ठा जटायुं मां सीतां रामा ऽहमैक्षिषि.' ॥
तमित्यादि-तं सीताघातिनं सीता हतानेनेति मत्वा रामो हनिष्यामीत्य. भ्यधावत । '६४३। धावू गति-शुयोः' । इत्यस्माल्लङि स्वरितेत्त्वादात्मनेपदम् । तं हन्तुमुद्यतं रामं जटायुराह मा वधिष्ठा इति । 'हे राम मां जटायु मा वधिष्ठा मा वधीः' । 'वध बन्धने' इत्यस्मादनेकार्थत्वादात्मनेपदिनः सेटो लुङि रूपं, न हन्तेः तस्य परस्मैपदित्वात् । सत्यप्याङि २६९५। आङो यमहनः ।।३।२८।' इत्यात्मनेपदं न भवति तत्राकर्मकादित्यनुवृत्तेः । स्वनामपरिकीर्तनं तव पितुरहं सखेति ख्यापनार्थम् । सीतामैक्षिषि दृष्टवानहम् । लुडन्तमैकवचने रूपम् । अतो मां मा वधिष्ठाः॥ ३३३-उपास्थितैवमुक्ते तं सखायं राघवः पितुः, ॥
पप्रच्छ जानकी-वार्ता संग्रामं च पतत्रिणम्. ॥
ततो रावणमाख्याय द्विषन्तं पर्ततां वरः ॥ ४२ ॥ उपास्थितेत्यादि-पक्षिणैवमुक्ते सति राघवस्तं व्रणभङ्गाधनुष्ठानेन उपास्थित परिचरितवान् । सङ्गतकरणे आत्मनेपदम् । २३८९। स्थानोरिञ्च ।।२।१७' इतीत्वम् । '२३६९। हस्खादङ्गात् ।।२।२७।' इति सिचो लोपः । पितुः सखायमिति सखिशब्दस्य द्वितीयैकवचने रूपम् '२५३। सख्युरसम्बुद्धौ । ९२।' इति णित्वादृद्धिरायादेशः । पप्रच्छ पृष्टवान् । तं पक्षिणं जटायुम् । कि
१-१४५१ । आराद दूरसमीपयोः । ना० अ० । २-(२८९) श्लोकोकं टीकनं प्रेक्ष्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com