________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १३३
जानकीवाती संग्रामं च । तत उपस्थानानन्तरं रावणं द्विषन्तम् '३१११। द्विषोमित्रे | ३ |२| १३१ |' इति शतृप्रत्ययः । आख्याय सीता रावणेन हृतेति कथयित्वा । पततां पक्षिणां वरो जटायुर्ममारेति परेणान्वयः ॥
३३४ - व्रण - वेदनया ग्लायन् ममार गिरि-कन्दरे, ॥ तस्या॑य॒म्बु- क्रियां कृत्वा प्रतस्थाते पुनर् वनम् ॥४३॥
प्रणेत्यादि - व्रणकृता वेदना पीडा । मध्यमपदलोपी समासः । तथा प्रकायन् ग्लानिं गच्छन् । शतर्यायादेशः । ममार मृतः । व गिरिकन्दरे यं गिरिमसृपत् तस्य निम्नप्रदेशे । कन्दं रातीति (कं दारयतीति) व्युत्पत्तिमात्रम् । तस्य जटायोरम्बुक्रियां दाहमुदकदानं च कृत्वा पुनर्भूयो वनमरण्यं प्रतस्थाते प्रस्थितौ । १६८९ । समय-प्र- विभ्यः - |१|३|२२|' इत्यात्मनेपदम् ॥
३३५ - सत्वानजस्रं घोरेण बलापकर्षमश्नता ॥
क्षुध्यता जगृहाते तौ रक्षसा दीर्घ - बाहुना ॥ ४४ ॥
सत्वानित्यादि - तौ रामलक्ष्मणौ रक्षसा राक्षसेन जगृहाते गृहीतौ । कर्मणि लिट् । किंनाना । दीर्घबाहुना । अन्वर्था चेयं संज्ञा । एक एकेन बाहुना द्वितीयो द्वितीयेनेति । क्षुध्यता बुभुक्षमाणेन घोरेण भीमेन । सत्वान् अजस्रं सदा । नन्पूर्वाजसः (३१४७ | नमिकम्पि - १३।२।१६७१' इति रः । भनवा भुञ्जनेन । किं कृत्वा । बलापकर्ष बलादाकृष्येव पाकादिकमनपेक्ष्य । '३३७३। अपादाने परीप्सायाम् | ३ | ४|५२ | ' इति णमुल् ॥
2
३३६ - भुजौ चकृततुस् तस्य निखिंशाभ्यां रघुत्तमौ ॥ स छिन्न- बाहुपतद् विह्वलो ह्वलयन् भुवम् ॥४५॥
इति प्रकीर्णकाः ।
भुज्ञावित्यादि - रघूत्तमौ रामलक्ष्मणौ तस्य योजनबाहोः बाहू यथास्थानमागतौ चकृततुः च्छिन्नवन्तौ । '१५२९| कृतीं छेदने' । इत्यस्य रूपम् । काभ्यां । निखिंशाभ्यां खड्गाभ्याम् । निर्गतविंशतोऽङ्गुलिभ्य इति वाक्ये 'ढचूप्रकरणे संख्यामा स्तत्पुरुषस्योपसंख्यानम्' इति त्रिंशच्छन्दासृज्विधिः 'निरादयः' इति समासः । टिलोपः । स छिन्नबाहुः कृत्तभुजः सन् । अपतत् पतितः । पतेर्लुङि रूपम् । हृदिध्वादर । बिह्वलो व्याकुलः भुवं भूमिं हलवन् । '८६२ । चलने' | घटादित्वे ह्रस्वत्वम् ॥ इति प्रकीर्णकाः ॥
I
१ - २५८ । अम्भोऽर्णस्-तोय-पानीय-नीर-क्षीराऽम्बु-शम्बरम् " इति ना० भ० । २+'८५४। खङ्गे तु निश्शि ह चन्द्रासा ऽसिरिष्टयः । इति ना० अ० ।
भ० का० १२
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com