________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३१ ३२७-रिणच्मि जलधेस तोयं, विविनच्मि दिवः सुरान्, ॥
क्षुणनि सर्पान् पाताले, छिनद्मि क्षणदा-चरान्. ३६ रिणच्मीत्यादि-जलधेस्तोयं रिणच्मि रिक्तीकरोमि । '१५३५। रिचिर् विरेचने ।' दिवः स्वर्गात् सुरान् विविनच्मि पृथक्करोमि । '१५३६। विचिर् पृथग्भावे ।' क्षुणनि चूर्णयामि सान पाताले । '१५३७। क्षुदिर पेषणे' । '१९७॥ अट्-कु-प्वाङ्-८।४।२।' इति णत्वम् । छिननि क्षणदाचरान् राक्षसान् द्विधा करोमि । '१५३४। छिदिर द्वैधीकरणे' ॥ ३२८-यम युनज्मि कालेन समिन्धानो ऽस्त्र-कौशलम् , ॥
शुष्क-पेषं पिनष्म्युीमखिन्दानः स्व-तेजसा. ॥३७॥ यममित्यादि-यममपि कालेन तदधीनेन मृत्युना युनज्मि सम्बध्नामि । अस्त्रकौशलं समिन्धानः संवर्धयन् । '१५४२। जि-इन्धी दीप्तौ' । आत्मनेपदिनो लटः शानच् । '२५४४। नान्नलोपः ।६।४।२३।। २४६९। नसोरल्लोपः १६।४।१११॥' उवौं शुष्कां कृत्वा चूर्णयामि । १५४६। पिप्लॅ संचूर्णने । ३३५६। शुष्कचूर्णरूक्षेषु पिषः ।३।५।३५।' इति णमुल । अखिन्दानः स्वतेजसा दैन्यमभजन् अपरिश्राम्यन् । '१५४३। खिद् दैन्ये' । पूर्ववल्लोपः ॥ ३२९-भूतिं तृणद्मि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम् , ॥
भनज्मि सर्व-मर्यादास् , तनच्मि व्योम विस्तृतम् ३८ भूतिमित्यादि-यक्षाणां भूतिं सम्पदं तृणमि उत्सादयामि । '१५४०। उ-तृदिर हिंसाऽनादरयोः' । इन्द्रस्य विक्रमं हिनस्मि अपनयामि । १५५०। हिसि हिंसायाम्' । २२६२। इदितो नुम्-१७।१।५।' तस्य भानलोपः। सर्वमर्यादाश्च व्यवस्थाः सर्वेषां भनज्मि मर्दयामि । १५४७। भञ्जो आमर्दने ।' '२५४४। नान्नलोपः ।६।४।२३।। तनच्मि व्योम विस्तृतं सङ्कोचयामि । १३. ३१॥ स्तृञ् आच्छादने' सौवादिकस्य रूपं न १५६९। स्तृञ् आच्छादने' इति कैयादिकस्य । '१५५३। तन सङ्कोचे । १५४४।। नान्नलोपः ।६।४।२३।' ॥
कस्मादेवं प्रवृत्तस्त्वमिति चेदाह३३०-न तृणेह्मीति लोकोऽयं मां विन्ते निष्-पराक्रम् ॥
एवं वदन् दाशरथिरपृणग् धनुषा शरम्. ॥ ३९ ॥ न तृणेहीत्यादि-न तृणेमि न मारयामि इति कृत्वा । १५४९। तृह हिसि हिंसायाम् । श्नम् । '२५४५/ तृणह इम् ।७।३।१२।' अयं लोको मां निष्पराक्रम निवार्य विन्ते विचारयति । '१५४४॥ विद विचारणे' इत्यस्मादात्मनेप
१-३०२ । सर्वसहा वसुमती वसुधोवी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर् मेदिनी मही ॥' इति ना० अ०।२-८० । 'यो-दिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगनमनन्तं सुरवमै खम् ॥' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com