________________
१३० भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
दीतैरिति भावे निष्ठा । सर्वत्र कर्तरि लुङ् । '२३२८ | दीप - जन - | ३|११६ ११' इत्यादिना चिण् ॥
३२४ - अताय्य॑स्यो॑त्त॒मं सत्वम॑प्यायि कृत-कृत्य - वत्, ॥
उपाचायिष्ट सामर्थ्यं तस्य संरम्भिणो महत्. ॥३३॥
अतायीत्यादि - अस्य रामस्य उत्तमं सत्वमभिप्रायः शोकव्यसनयोरविकारित्वात् अतायि सन्ततं नान्तरा विच्छिद्यते स्म । अप्यायि बृंहितम् । कृतकत्यवत् समाप्तक्रियवत् । हस्ततलस्थं शत्रुवधं मन्यमानस्य । उभयत्रापि पूर्ववचिण् । तस्य रामस्य संरम्भिणः शत्रुविषये क्षुभितचित्तस्य सामर्थ्यं बलं महदुपाचायिष्ट स्वयमेवोपचीयते स्म । चिनोतेः '२७६८ | अचः कर्मकर्तरि |३|१|६२| ' इति वा चिण् । पक्षे चिण्वदिट् ॥
३२५ - अदोहीव विषादो ऽस्य, समरुद्धैव विक्रमः, ॥
समभावि च कोपेन, न्यश्वसीच् चाऽऽयतं मुहुः. ॥
अदोहीत्यादि - अस्य रामस्य विषादः प्रागुत्पन्नो ऽदोहीव स्वयं क्षरित इव । अथवा अदोहीव प्रपूर्यते स्मेत्र । '२७६९ | दुहश्व | ३|१|६३ |' इति चिण् । विक्रमः पुरुषकारः समरुद्धेव स्वयं संरुध्यते स्म इव । '२७६६ । कर्मवत् - 1३1१1८७ |' इत्यादिना कर्मवद्भावेन प्राप्तस्य चिणः '२७७० | न रुधः | ३ | १|६४ | ' इति निषेधः । तेन सिजेव भवति । '२२८१ । झलो झलि |८|२|२६|' इति सिचो लोपः । '२२८०। झषस्तथोर्धो ऽधः || २ |४०|' | '५२ | झलां जश् झशि |८|४ | ५३।' इति धत्व - जइत्वे । कोपेन च समभावि सम्भूतम् । '२७५९ । चिण् भावकर्मणोः | ३ | १ | ६६ |' इति भावे चिण् । त्रैलोक्यदौः स्थ्यावबोधाज्जातखेदः सन् आयतं दीर्घं न्यश्वसीत् निःश्वसितवान् । '२२९९| हयन्त - |७|२|५|' इति वृद्धिर्न भवति । मुहुरिति सर्वत्र योज्यम् ॥ ॥ इति सिजधिकारः ॥ ३२६-अथा॑ ऽऽलम्ब्य धनू रामो जगर्ज गज- विक्रमः, ॥ 'रुणमि सवितुर् मार्ग, भिनद्मि कुल - पर्वतान् ॥३५॥
नम्-प्रकरणं कथ्यते
इतः प्रभृति श्रम् प्रकरणमधिकृत्याह
अथेत्यादि - अथानन्तरं रामो धनुरालम्ब्य गृहीत्वा जगर्ज विस्फूर्जितवान् । धनू राम इति '१७४ | ठूलोपे | ६ | ३|१११ |' इति दीर्घः । ' २३५। गर्ज गर्जने' । किं जगर्ज । सवितुः सूर्यस्य मार्ग पन्थानं रुणध्मि आवृणोमि । शरैरित्यर्थात् । '२५४३ | रुधादिभ्यः श्नम् | ३|१|७७|' तथा भिनद्मि विदारयामि कुलपर्वतान् ॥
1
१–‘८६८। विक्रमस् त्वतिशक्तिता ।' इति ना० अ० । २ - 'महेन्द्रो मलयः सद्यः शक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com