________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १२९ ३२० - इदं कवचमच्योतीत्, साऽश्वो ऽयं चूर्णितो रथः, ॥ एह्य॑मुं गिरिम॑न्वे॒ष्टुमवगाहावहे द्रुतम् ॥ २९ ॥
इदमित्यादि - इदं कवचमच्योतीत् भ्रष्टम् । भङभावे सिजेव भवति । अयं रथः साश्ववर्णित आस्ते । यतश्चैवं तस्मादेहि आगच्छ द्रुतम् । किं पश्चाद्विलम्बसे । अमुं गिरिमवगाहाव हे विलोडयावः । किमर्थं अन्वेष्टुम् । सीतामित्यर्थात् । एतत्सर्वं पर्वतसमीपे कथ्यते ॥
"
३२१ - मन्युर् मन्ये मम ऽस्तम्भीद्, विषादो ऽस्तभद्यतम् ॥ अजादिव च प्रज्ञा, बलं शोकात् तथा॑जरत्. ॥ ३० ॥
मन्युरित्यादि - मन्युः शोकः । मन्ये धमन्यौ । ( क्रन्दतः उच्छूने )। अस्तम्भीत् स्तब्धवान् । विषाद उद्यतिमस्तभत् । अत्र पक्षे अनुनासिकलोपः । प्रज्ञा च तस्वविवेकिनी बुद्धिः अजारीत् विवेकवैकल्यात् जीर्णेव । तथाशब्दः समुच्चये । बलं शोकादजरत् जीर्णम् । स्वकार्याकरणात् । ' २४०६ । ऋदृशोऽङि।७।४।१६।’ इति गुणः । ‘२२९१ | जू-स्तम्भु - | ३|१|५८ | ' इत्यादिना सिजङ ॥ ३२२ - गृध्रस्यैहाश्वतां पक्षौ कृत्तौ वीक्षस्व लक्ष्मण ! ॥
जिघत्सोर् नूनमपादि ध्वंसो ऽयं तां निशा - चरात्. ॥ गृध्रस्येत्यादि - हे लक्ष्मण । इह प्रदेशे गृध्रस्य पक्षौ कृत्तौ छिन्नौ । अश्वतां 'शूनौ । पूर्ववदङि ' २४२१ | श्वयतेरः | ७|४| १८ |' इति । वीक्षस्व नूनमवश्यं सीतां जिघत्सोरतुमिच्छोर्गृधस्य । अदे : ' २४२७ । लुङ्- सनोर्घस्लृ । २|४|३७| ' निशाचरादयं ध्वंसः पक्षच्छेद आपादि उत्पन्नः । कर्तरि लुङ् । '२५१३। चिण ते पदः | ३|१|६०|' इति ग्लेश्चिणादेशः । तशब्दस्य ' २३२९ । चिणो लुक् १६।४।१०४॥' ॥
३२३ - क्रुद्धो ऽदीपि रघु- व्याम्रो, रक्त- नेत्रो ऽजनि क्षणात् ॥
अबोधि दुःस्थं त्रैलोक्यं दीप्तैरापूरि भानु-वत्. ॥३२॥
क्रुद्ध इत्यादि - तदेवं रघुव्याघ्रो रामः क्रुद्धो अदीपि दीप्तवान् | क्षणाच्च रक्तनेत्रो ऽजनि जातः । ' २५१२ | जनि - वध्योश्च | ७|३|३५|' इति न वृद्धिः । त्रैलोक्यं निहन्मि यस्मिन् हन्यमाने सीताद्रुहोऽपि नश्यन्ति इत्यभिप्रायेण दुःस्थमबोध बुध्यते स्म । किंवा रामस्य द्वारा हियन्ते तदान्येषु का कथा इति दुःस्थं त्रैलोक्यमबोधि । दी है स्तेजोभिर्हेतुभिरापूरि वर्धते स्म । भानुवदादित्यवत् ॥
१ – १११०४ । स्युरुत्तरपदे व्याघ्र पुनवभ कुञ्जराः ॥ सिंह-शार्दूल-नागाऽऽद्याः पुंसि श्रेष्ठाऽर्थगोचराः ।'
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com