________________
१२८ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
प्रत्यर्थिशब्दात्तत्करोतीत्यर्थे णिच् । तदन्तालोटः परस्मैपदम् । '२०५१ । अर्थ याच्ञायाम्' इत्यस्य तु स्वार्थिकण्यन्तस्य सर्वदात्मनेपदित्वात् प्रत्यर्थयध्वमिति स्यात् ॥
३१७ - स्व- पोषमपुषद् युष्मान् या पक्षि- मृग- शावकाः ! ॥
अद्युतच् चैन्दुना सार्धं, तां प्रनृत, गता यतः . ' ॥ २६ ॥
स्वपोषमित्यादि - हे मृगपक्षिणां शावकाः पोताः ! या सीता युष्मान् स्वपोषमपुषत् पुष्टवती । ' ३३६१ | स्वे पुषः | ३ | ४ |४०|' इति णमुल् । '२८२७॥ यथाविध्यनुप्रयोगश्च |३|४|४|' '२३४३ | पुषादि - ३|१|५५ १' इत्यङ् । तां प्रब्रूत कथयत । यतो यत्र । आद्यादित्वात्तसिः । गता सत्यद्युतत् द्योतते स्म । पूर्ववदङ् । इन्दुना सार्धम् । चन्द्रमसा तुल्यकान्तित्वात् ॥
३१८ - गिरिमन्वसृपद् रामो लिप्सुर् जनक- संभवाम्, ॥
तस्मिन्नयोधनं वृत्तं लक्ष्मणार्याऽशिषन् महत् - २७
गिरिमित्यादि - गिरिमन्वसृपत् लक्ष्यीकृत्य गतः । हृदित्वादङ् | किमर्थं लब्धुमिच्छुः ‘२६२३। सनि मी मा - |७|४|५४ |' इत्यादिना इस् । ' २६२० | भन्न लोपः - | ७|४|५८ |' इत्यभ्यासलोपः । १२१ । खरि च |८|४|५५ | ' इति चर्व्वम् । जनकसम्भवाम् । सम्भवत्यस्मादिति सम्भवः । ' ३२३२ | ऋदोरप् | ३ | ३|५७।' । जनकः सम्भवो यस्यास्तस्माद्वा संभवो यस्यास्तां सीताम् । तस्मिन् गिरौ आयो - धनं युद्धं महदतिशयत्वात् वृत्तं लक्ष्मणायाशिषत्कथितवान् । क्रियायोगे चतुर्थी । '२३८२ । सर्ति - | ३ |२|५६' इत्यादिनाऽङ् । '२४८६ । शास इद-हलोः | ६ |४| ३४ |' इतीत्वम् । '२४१० | शासि वसि | ८ | ३|७०|' इति षत्वम् ॥
कथमकथयदित्याह—
३१९ - 'सीतां जिघांसू सौमित्रे ! राक्षसावरतां ध्रुवम् ॥
"
इदं शोणितमभ्यग्रं संप्रहारे ऽच्युतत् तयोः ॥२८॥
सीतामित्यादि - ( इत्येवं लक्ष्मणायाशिषदिति श्लोकचतुष्टयं यावत् सम्बध्यते ) हे सौमित्रे ! सीतां हन्तुमिच्छन्तौ राक्षसावारतामागताविति ध्रुवं निश्चितम् । भर्तेराङ्पूर्वात्पूर्ववदङ् । '२४०६ । ऋ-दृशोऽडि - १७।४।१६ ।' इति गुणः । कीदृशौ । सीतां जिघांसू हन्तुमिच्छू । हन्तेः सनि '२७१४ | अज्झनगमां सनि | ६ |४| १६ | ' इति दीर्घः । ' २४३० | अभ्यासाच्च | ७|३|५५ |' इति कुत्वम् । तथाहि । तयोः सीताद्वेषानुनयाभ्यां संप्रहारे युद्धे इदं शोणितम् अच्युतत् गलितम् । '४१ च्युतिर् क्षरणे' । अकर्मकोऽत्र । '२२६९| इरितो वा | ३ | १|५७/ इत्यङ् । अभ्यग्रं प्रत्यग्रम् ॥
१ – (३१६ ) श्लोक-स्थं टीकनं प्रेक्ष्यम् । २ - ८७० अस्त्रियां समराऽनीकरणाः -कलह-विग्रहौ । संप्रहाराऽभिसंपात - कलि-संस्फोट- संयुगाः ॥' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com