________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- ११७ तस्येत्यादि-तस्य रामस्य स्वान्तं मनः । '३०५८। क्षुब्ध-स्वान्त-1७।२।१४।' इत्यादिना निपातितम् । शोकाग्निः शोकोऽग्निरिव । अलिपत दीपितवान् । परस्मैपदेषु २४१८। लिपि-३।११५३' इत्यादिना नित्ये प्राप्ते '२४१९॥ मात्मनेपदेष्वन्यतरस्याम् ।३।११५४।' इति विकल्पेनाङ् । '२१५८। स्वरितजि. त:-१३७२।' इति क्रियाफलविवक्षायामात्मनेपदम् । काष्ठमिव स्वान्तं ज्वलन् अभिवर्धमानः । अनिलो वायुः शीतोऽपि सन् वने तं राममलिप्तेव दीपितवानिव । अङभावपक्षे २२८१। झलो झलि ।।२।२६।' इति सिचो लोपः। नतु नैवाजिह्लदत् हादितवान् । शोकानेरुद्बुद्धत्वात् । ह्रादेय॑न्तात् । '२३१२। णिश्रि-३।११४४।' इति चङ् ॥ ३१४-स्त्रानभ्यषिचता ऽम्भो ऽसौ रुदन् दयितया विना ॥
तथा ऽभ्यषिक्त वारीणि पितृभ्यः शोक-मूर्च्छितः २३ सानित्यादि-असौ रामो दयितया विना । शोकमूछितः शोकेन मोह नीतः । स्नातुमारब्धः । मूर्हेतुमण्ण्यन्तस्य रूपम् । ११२६। ष्णा शौचे' शत. प्रत्ययः । रुदन अश्रु विमुञ्चन् । अम्भः सलिलं अभ्यषिचत क्षिप्तवान् । शिरस्यालिना । तथा स्नातः पितृभ्यो वारीणि अभ्यषिक्त दत्तवान्। सिचेः पूर्ववद्विभापाऽङ् । सिचिरत्रोत्सर्गे वर्तते । ततश्चार्थान्तरवृत्तित्वाजलस्य कर्मत्वम् । अभ्युक्षणे तु करणत्वं यथा जलेन सिञ्चतीति ॥ ३१५-तथा ऽऽतॊ ऽपि क्रियां धयां
स काले ना ऽमुचत् क्वचित्, ॥ महतां हि क्रिया नित्या
छिद्रे नैवो ऽवसीदति. ॥ २४ ॥ तथेत्यादि-स रामस्तेन प्रकारेणार्तोऽपि क्वचिदपि धो क्रियां काले नामुचत् न त्यक्तवान् । यतो महतां सत्यपि छिद्रे व्यसने नित्या क्रिया नावसी. दति नापयाति । आपूर्वादणोतेा निष्ठायां ऋति धातौ वृद्धिः। मुचेः लुदनुबन्धत्वादछ । ३२७७। कृषः श च ३।३।१०।' रिडियडौ ॥ ३१६-आह्वास्त स मुहुः शूरान् , मुहुराहत राक्षसान्,॥
'एत सीताद्रुहः संख्ये, प्रत्यर्थयत राघवम्, ॥२५॥ आह्वास्तेत्यादि-पुनः पुनरभिभवितुं शूरानाहास्त आहूतवान् तथा राक्षसा. नाइत । पूर्ववद्विकल्पः । २७०४। 'स्पर्धायामाङः ॥१॥३॥३॥' इत्यात्मनेपदम् । कथमाहूतवानित्याह । हे सीताद्रुहः सीताहिंसकाः शूरा राक्षसा वा एत आगछत । आयूर्वादिणो लोट् । संख्ये संग्रामे । राघवं प्रत्यर्थयत प्रत्यर्थिनं कुरुत।
१-८६९ । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ॥' इति ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com