________________
१२६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः,
३१० - रुदतो ऽशिश्वयच् चक्षुरास्यं तोस् तव श्वयीत्, ॥ म्रिये ऽहं मां निरास्थश् चेन्, मा न वोचश् चिकीर्षितम् ॥ १९ ॥
1
रुंदत इत्यादि - तवार्थे त्वां पश्यामीति रुदतो मम चक्षुरशिश्वियत् उच्छूनम् । आस्यं मुखं चाश्वयीत् । '२३७५ | विभाषा धेट् योः | ३|१|४९ |' इति चङ्-सिचौ । चङीयङ् । '२२९९ । हयन्त - |७|२|५|' इति न वृद्धिः । '२२६६। इट ईटि |८||२८|' इति सिचो लोपः । गुणायादेशौ । मां निरास्थश्चेद्यदि मम दर्शनं निरस्तवती त्वं तदा म्रियेऽहम् । '२५३८ । म्रियतेर्लुङ्गलिङोश्च | १|३|६१|' इति चकाराच्छित्यात्मनेपदम् ' २३६७। रिङ्-श यग् |७|४|२८|' इति रिङ् । अतो यत्त्वया चिकीर्षितं कर्तुमिष्टं तन्मा नावोचः मा नाभाषिष्ठाः अपि तु ब्रूहि । ' २४३८ । भस्यति वक्ति - | ३|१|५२ | ' इत्यङ् । ' २४५४ | वच उम् १७|४|२०|' ॥
३११ - लक्ष्मण ssचक्ष्व यद्यख्यत्
सा किञ्चित् कोप- कारणम्, ॥ दोषे प्रतिसमाधान -
ज्ञाते क्रियतां कथम् ॥ २० ॥
लक्ष्मणेत्यादि - हे लक्ष्मण ! यदि सा किञ्चित्कोपकारणमाख्यदुक्तवती । इदं तेनाप्रियमाचरितम् । पूर्ववदङ् । तदाचक्ष्व कथय । भज्ञाते दोषे अनिर्धारिते प्रतिसमाधानं कथं क्रियतां अनुष्ठीयतां । नैवेति भावः । कर्मणि लोट् । '२३६७। रिङ्-|७|४|२८|' इत्यादिना रिङ् ॥
३१२-इह सा व्यलिपद् गन्धैः, स्नान्तऽभ्यषिचज् जलैः,
set sहं द्रष्टुमह्वंतां,' स्मरन्नैवं मुमोह सः ॥ २१ ॥ इहेत्यादि - इह प्रदेशे सा सीता गन्धैर्व्यलिपत् समालिप्तवती । मामात्मानं चेत्यर्थात् । इह स्स्रान्ती क्रीडापूर्वकमभ्यषिचत् । हस्तयन्त्रमुक्तस लिलेन मामभिमुखं सिक्तवतीत्यर्थः । ' २२७६ | प्राक्सितात् - १८/३/६३ |' इति षत्वम् । इह द्रष्टुं तामाह्वं आहूतवान् । '२४१८ | लिपि - सिचि ह्रश्व | ३|१|५३ |' इति च्लेरङ् | एवं स्मरन् मुमोह मोहं गतवान् ॥ ३१३ - तस्या॑ ऽलिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन्, अलिप्तैर्वा ऽनिलः शीतो वने तं न वजिह्रदत्. २२
"
१ - '६५१ । वक्रा SSस्ये वदनं तुण्डमाननं लपनं मुखम् ।' इति ना० ४० २-१५३ । चित्तं तु चेतो हृदयं स्वान्तं हृन् मानसं मनः । इति मा० भ०
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com