________________
तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः - १२५
* २३६९ | इस्वात् - १८/२/२७|' इति सिचो लोपः । नोऽस्माकं जीवितेन मा स्था: क्रीडां मा कार्षीः । रमेरात्मनेपदित्वात्तङ् ॥ एते प्रकीर्णकाः ॥ अतः परं सिजधिकारः
सिचं सापवादमधिकृत्याह -
३०७ - अहं न्यबधिषं भीमं राक्षसं क्रूरविक्रमम्, ॥
मा घुक्षः पत्युरात्मानं मा न श्लिक्षः प्रियं प्रिये. १६
"
अहमित्यादि - यतोऽहं राक्षसं मारीचं क्रूरविक्रमं भीमं भयानकं न्यवधिषं निहतवानस्मि । हन्तेः '२४३४। लुङि च | २|४|४३|' इति बधादेशः । अदन्तत्वाद्वृद्ध्यभावः । तस्मान्मा घुक्षः न गोपय पत्युरात्मानम् । अन्तर्धावित्य - पादानत्वम् | '२५५ | ख्यत्यात्परस्य | ६ | १|११२ । ' इत्युत्वम् । गुहेः '२३३६। शल इगुपधादनिटः सः | ३|१|४५ | ' | '३२४ । हो ढः | ८|२| ३१ | भष्भाव-कत्व - पत्वानि । सिपश्च विसर्जनीयः । मा न श्लिक्षः मा न परिरब्धाः अपितु श्लिष्य प्रियं माम् । हे प्रिये । २५१४ | श्लिष आलिङ्गने | ३|१|४६ ।' इति क्सः | ३०८ - मा स्म द्राक्षीर् मृषा दोषं, भक्तं मां मातिचिक्लिशः, ॥
शैलं न्यशिश्रियद् वामा, नदीं नु प्रत्यदुद्रुवत्. ॥१७॥
--
मा स्मेत्यादि - मृषा दोषं व्यलीकं दोषं मा द्राक्षीः । मयीत्यर्थात् '२२२० । स्मोत्तरे लङ् च । ३।३।१७६।' इति चकारालुङ् । '२३३६। शल इगुपधात् ।३।१। ४५।' इति क्सस्य '२४०७ न दृशः | ३ | २|४७ |' इति निषेधः । ' २२६९ | इरितो वा |३|१|५७|' इत्यङभावे सिच् । '२४०५ | सृजि - दृशो :- १६।११५८१' इत्यम् । हलन्तलक्षणा वृद्धिः । ' २९४ | वश्च - |८|२| ३६ |' इत्यादिना षत्वम् । यतोऽहं भक्तस्ततो मां भक्तं मातिचिक्किशः नातिक्लेशय । क्लिशेर्ण्यन्तात् सिपि । '२३१२। णि श्रि - | ३ |१| ४८ |' इत्यादिना चङ् । णिलोप- ह्रस्व-द्विर्वचनानि । पुनर्विकल्पयनाह । मयि दोषदर्शनाद्वामा मत्प्रतिकूलवर्तिनी सती शैलं नु पर्वतं कमप्यशिविदाश्रिता उत नदीं प्रत्यदुद्रुवत् प्रतिगतेत्यर्थः । नुशब्दो वितर्के । पूर्ववञ्चङ् ॥ ३०९ - ऐ वाचं देहि . धैर्य नस् तव हेतोरे सुस्रुवत्. ॥
त्वं नो मतिर्मिर्वा घासीर नष्टा, प्राणानिर्वाsदधः.
ऐ वाचमित्यादि - ऐशब्दो निपातोऽभिमुखीकरणे वर्तते । वाचं देहि । प्रार्थनायां लोट् । '२४७१| ध्वसोरेद्धौ - १६।४।११९ |' इत्येत्वम् । किमिति चेदा इ। धैर्य नोऽस्माकं धीरता तव हेतोरसुखुवत् गलितम् । नष्टा अदर्शनं गता सती त्वं नोऽस्माकं मतिं बुद्धिमधासीरिव पीतवतीव । बुद्धेरपगमात् । '२३७५। विभाषा द्रयोः | ३|१|४९ । ' इति यदा न च तदा '२३७७ | यम-रम७२/७३ | इति सगिटौ । प्राणानदधः पीतवती । कायस्याचेष्टत्वात् । चङि रूपम् । २३८२ आतो लोपः | ६ |४| ६४ | १ ||
I
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com