________________
१२४ भट्टि-काव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमो वर्गः, कत्वम् । अतः सम्बुद्धौ ह्रस्वत्वम् । विललाप स एवं कृत्वा बहनेकप्रकार विलापं कृतवान् ॥ ३०३-इहा ऽऽसिष्टा ऽशयिष्टेह सा, स-खेलमितो ऽगमत् , ॥
अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः॥१२॥ इहेत्यादि-इह प्रदेशे आसिष्ट उपविष्टा । '१९५८। इदमो हः ।।३। १११ । १९४९। इदम इश ।५।३।३।' इह । अशयिष्ट शयितवती । आसे: शीङश्च लुङ् । सखेलं सलीलम् । इतः प्रदेशादगमत् गतवती इस्थमेवंप्रकारम् । मैथिल्याः सरन् । '६१३॥ अधीगर्थ-२।३।५२।' इति कर्मणि षष्ठी । भरताप्रजो रामोऽग्लासीत् ग्लानिं गतः । ग्लायतेर्लुङ् । '२३७७। यम-रम-७।२।. ७३।' इति सगिटौ ॥ ३०४-'इदं नकं-तनं दाम पौष्पमैतद् दिवा-तनम् , ॥
शुचैवौद्धध्य शाखायां प्रग्लायति तया विना, ॥१३॥ इदमित्यादि-नक्तंतनं निशाभवं इदं दाम पुष्पमाला पुनर्दिवातनं दिव. सभवम् । '१३९। सायम्-४।३।२३।' इत्यादिना ट्युट्युलौ तुद च । पौष्पं पुष्पाणामिति तस्येदमित्यण् । शुचेव शोकेनेव । सम्पदादित्वाविप् । शाखायामुद्रध्य । आत्मानमित्यर्थात् । प्रग्लायति ग्लानिं गच्छति । ग्लायतेः शित्यायादेशः । शाखायां प्रलम्बमानं ग्लानिं गच्छन्तं वीक्ष्येदमुत्प्रेक्षितम् । कुतः शोकात्तया विना सीताविच्छेदेन ॥ ३०५-ऐक्षिष्महि मुहुः सुप्तां यां मृता ऽऽशङ्कया वयम् , ॥
अ-काले दुर्मरमहो, यज् जीवामस् तया विना,॥१४॥ ऐक्षिष्महीत्यादि-यां वयमैक्षिष्महि ईक्षितवन्तः। ईक्षेः सेटो लुङ् । मुहुः सुप्तां अविच्छिन्न निद्वत्वात् । मृताशङ्कयेति अनिष्टशंसित्वात् प्रियजनहृदयस्य इदानीं तया विना अहो वयं यजीवामस्तदकाले दुर्मरणमिति विललाप । जीवितस्थापूर्णकाले दुःखेन मरणमिति भावे खल ॥ ३०६-अ-क्षेमः परिहासो ऽयं. परीक्षा मा कृथा मम, ॥
मत्तो मा अन्तर्धिथाः सीते! मा संस्था जीवितेन नः,॥ अक्षेम इत्यादि-परिहसनं परिहासः क्रीडा । अयमक्षेमो न कल्याणकरः। मम परीक्षां किं मामपश्यन् दुःखित आस्ते न वेति मा कृथाः मा कार्षीः । अपि तु दर्शयात्मानम् मा निलीयस्व । २३६८। उश्च ।।२।१२।' इति कित्त्वाद्गुणाभावः । '२३६९। हवादङ्गात् ।२७।' इति सिचो लोपः । तस्माद्धेतोः सीते मान्तर्धिथाः । अन्तर्हिता मा भूः । ५९१। अन्तधौं ।१।४२' इत्यपादानसंज्ञायां 'पञ्चम्यास्तसिः' । '१३७३। प्रत्ययोत्तरपदयोश्च ।।२।९।' इति मदादेशः लुङि '२३०९। स्था-वोरिच ।।२।१७।' इति सिचः कित्वमित्वं च।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com