________________
तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १२३ ३००-संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् ॥
प्राणान् दुहन्निवा ऽऽत्मानं शोकं चित्तमवारुधत्. ९ संदृश्येत्यादि-रामः शरणं गृहं शून्यं संदृश्य दृष्ट्वा । शोकं चित्तमवारधत् चित्तं शोकं प्रावेशयत् । कीदृशः। प्रियां जानकी वनं भिक्षमाणः । प्राणान् दुहन्निव त्यजमिव । प्राणानिति प्रधानं कर्म आत्मानमित्यकथितम् । आत्मनः प्राणान् त्यजत्रिव ॥ ३०१-'गता स्यादवचिन्वाना कुसुमान्याश्रम-दुमान्.॥
आ यत्र तापसान् धर्म सुतीक्ष्णः शास्ति, तत्र सा.१० गतेत्यादि-यत्र यसिंस्तपोवने सुतीक्ष्णो नाम ऋषिः धर्म शास्ति शिक्षयति । धर्ममिति प्रधानं कर्म तापसानित्यकथितम् । तत्र तपोवने गता स्यात् । सम्भावने लिङ् । आकारो निपातः स्मरणे । किं कुर्वती कुसुमान्यवचिन्वाना। कुसुमानीति प्रधानं कर्म आश्रमदुमानित्यकथितम् । अवचिन्वानेति चिनोते. कभिप्राये तछ । दुह्यादिदण्डको गतः ॥
इति दुहादिद्विकर्मकः।
__ अत परं प्रकीर्णकाःप्रकीर्णकानाह३०२-आः, कष्टं, बत, ही-चित्रं, हूं, मातर, दैवतानि धिक्,
हा पितः!, को ऽसि हे सु-भ्र!,' बहवं विललापसः, आः कष्टमित्यादि-शोकेनाक्रान्तमना विलपन्नाह-आः पीडायाम् । पितृवियोगपीडितः आः इत्याह । असद्वियोगेन पिता प्राणांस्त्यक्तवानित्यभिप्रायः । कष्टमित्याह । कष्टं कृच्छ्रम् । भर्तृमरणादसद्वियोगाच मातुः कावस्थे. त्यभिप्रायेणाह बत इति । षतशब्दः खेदे । सौमित्रिरपि तया सीतया अन्यादृशः सम्भावित इति विस्मितो हीत्याह । हीशब्दो विस्मये । यदि नाम स्त्रिया मूर्खतया तथाभिहितं सौमित्रिणा विदुषा कथं तादृशः शापो दत्त इत्यभिप्रा. रेणाह चित्रमिति । चित्रमाश्चर्ये । यदेवंविधोऽपि स्खलतीति । सर्वमेव दुर्जातं कैकेयीप्रभवमिति क्रुध्यन् हूं मातरित्याह । हूंशब्दः क्रोधे । अथवा सर्वमेतत् दैवचेष्टितं न ममानुष्ठितमित्यभिप्रायेणाह धिग्दैवतानीति । धिक् कुत्सा: याम् । प्राणांस्त्यक्तवन्तमपि पितरं पुनरहं द्रष्टास्मीत्यभिप्रायेणाह । हा पितः कदष्टव्योऽसीति । हा शोके । हे सीते क गतासीति । भ्रूशब्दात् 'भप्राणिजातेः' इत्यादिनो । उवर्णान्तमात्रस्य विधानाद्वहुव्रीहिः । उपसर्जनत्वं च । पुनः लियामूछ । '७५। अन्तादिवच ।।१।०५।' इति पूर्व प्रत्यन्तवत्त्वात् प्रातिपदि.
१-१९५९ । शरणं गृह-रक्षित्रोः । इति ना० ब०।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com