________________
१२२ भट्टिकाव्ये – द्वितीयेऽधिकारकाण्डे लक्षण-रूपे प्रथमो वर्गः,
-
२९७ - आशङ्कमानो वैदेहीं खादितां निहतां मृताम् ॥ स शत्रुघ्नस्य सोदर्यं दूरादायान्तमैक्षत ॥ ६ ॥
·
आशङ्कमान इत्यादि - तथाविधाशुभश्रवणादाशङ्कमानो वितर्कयन् वैदेहीं किं खादितां निशाचरादिना । ततः निहतां त्यक्तप्राणाम् । आहो स्वयमेवायुःक्ष• यान्मृतां वा । स रामः शत्रुघ्नस्य सोदर्य भ्रातरम् | ' १६६० | सोदराद्यः |४|४| १०९।' आयान्तमागच्छन्तमारादैक्षत दृष्टवान् । ईक्षेर्लङि रूपम् ॥ २९८ - सीतां सौमित्रिणा त्यक्तां सधीचीं त्रस्नुमैकिकाम् ॥
विज्ञाय siस्त काकुत्स्थः - 'क्षये क्षेमं सु- दुर्लभम् . ' ७
सीतामित्यादि - सौमित्रैरेकाकिनो दृष्टत्वान्नियतमनेन त्यक्तेति तां विज्ञाय ज्ञात्वा काकुत्स्थो रामः । क्षये गृहे । क्षीयते ऽस्मिन्निति अधिकरणेऽच् । क्षेमं कल्याणम् । सुदुर्लभं सुदुःखेन लभ्यत इति । '३३०५ | ईषद् - | ३|३|१२६ ।' इत्यादिना खल । अमंस्त ज्ञातवान् । कथं क्षये क्षेमं सुदुर्लभमिति आह - सधीचीं सहचारिणीं न क्वचिदेकाकिनीं तिष्ठन्तीम् । सहाञ्चतीति '३७३ । ऋत्विग्- | ३ | २|५९ |' इत्यादिना किन् । '४ २२ । सहस्य सधिः । ६।३।९५|' इत्यञ्चतौ वप्रत्यये सहस्य सध्यादेशः । 'अञ्चतेश्चोपसंख्यानम्' इति ङीप् । '४१६ | अचः | ६ |४| - १३८।' इत्यकारलोपः । ‘४१७ | चौ | ६ |३|१३८ । ' इति दीर्घः । कुतः त्रस्तुं त्रसनशीलाम् । क्रियाशब्दत्वादूङ् न भवति । एकिकां लक्ष्मणेन त्यक्तत्वात् । '१९९८ । एकादा किनिच्चासहाये | ५|३|५२ | ' इति चकारात्कन् । '४६३ । प्रत्ययस्थात् । ७।३।४४ |' इतीत्वम् ॥ ॥ एते प्रकीर्णकाः ॥
अतः परं दुहादि:
इतो द्विकर्माधिकारः -
२९९-सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान् ॥ रामं यथास्थितं सर्वं भ्राता ब्रूते स्म विह्वलः ॥ ८ ॥
सोऽपृच्छदित्यादि - '५३९ | अकथितं च | १|४|५१ |' इत्यत्र दुहियाचीत्यादिश्लोकस्थान् धातून् प्रयुङ्क्ते कविः । तत्र रामोऽपृच्छत् सीतामिति प्रधानं कर्म | लक्ष्मणमित्यकथितं कर्म । याचमानः प्रार्थयमानः । शिवं कल्याणम् । अर्थात् सीतायाः शिवं प्रधानं कर्म सुरान् देवान् इत्यकथितं कर्म । भ्राता - क्ष्मणः सर्वं यथावत् स्थितं ब्रूते स्म उक्तवान् । सर्वमिति प्रधानं कर्म राममित्यकथितम् ॥
१ - ५९७ समानोदर्य सोदर्य - सगर्थ्य - सहजाः समाः ।' इति ना० अ० । -- ' १३५४ । निलयाऽपचयौ क्षयौ । इति ना० अ० ।
३–दुह्-याच्- पच्-दण्ड् - रुधि- प्रच्छि-चि- ब्रू-शासु - चि-मथ - मुषाम् । कर्म - युक् स्यादकथितं तथा स्यान् नी-हु-कृष्-वद्दाम् ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com