________________
११६ भट्टिकाव्ये-द्वितीयेऽधिकार-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
उच्चैरित्यादि-तां सीतां जटायुः पक्षीन्द्रः । रावणं परुषं निष्ठुरं वदन् प्राप प्राप्तवान् । कीदृशीम् । उच्चै रारस्यमानाम् । 'हा राम, हा लक्ष्मण' इति शन्दौ द्वौ उच्चैमहता ध्वनिना पुनः पुना रसन्तीमित्यर्थः । रसेः शब्दकर्मकत्वात् क्रियासमभिहारे यङ् । कृपणां दीनाम् ॥
॥ इति प्रकीर्ण-काण्डम् ॥
॥अतः परमधिकार-काण्डम् ॥
तत्र प्रथमं टाधिकारःइतः परमधिकारकाण्डमुच्यते । यत्र प्राधान्येनैकैकमधिकृत्य लक्षणं प्रदर्शितं तदधिकारकाण्डम् । शेषलक्षणेषु प्रकीर्णकमेव द्रष्टव्यम् । एवं च कृत्वा अन्तरान्तरा तत्सूचनार्थ प्रकीर्णकश्लोकाभिधानम् । अत्र च काण्डे निर्दिष्टसंज्ञका. श्चत्वारः परिच्छेदाः । तत्र प्रथमे आचं टप्रत्ययमधिकृत्योच्यते । सर्गार्थस्य विवक्षितस्यापरिसमाप्तत्वात् तमेवाभिसन्धायाह२८०-'द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने ॥
अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम.॥९७॥ द्विषन्नित्यादि-एवंच कृत्वा मिश्रक उच्यते द्वयोरप्यत्र प्राधान्येन विवक्षितत्वात् । परुषं वदन् । कीदृशम् । हे द्विषन् ! मा भूः पूर्वसरो ममेति । ममाग्रतो भूत्वा मा गा इत्यर्थः । पूर्व सरतीति २९३३॥ पूर्वे कर्तरि ।३।२।१९।' इति टः । यतस्त्वमग्रेसरो जघन्यानाम् । अग्रेसरतीति '२९३२। पुरोऽग्रतः।३।२।१८।' इत्यादिना टः । जघन्य इति '२०५८। शाखादिभ्यो यः ।५।३।१०३।' इतीवार्थे यः । पापानां प्रथमस्त्वम् । कुतः भादायचरो वने । आदाय चरतीति '२९३१। भिक्षा-सेना-३।२।१७।' इत्यादिना । वने चरन्तीति वनेचराः । अधि. करणे चरेष्टः । तेषामय्याः प्रधाना ऋषयः । तानादाय चरसि भक्षयसि । कर्मणि षष्ठी॥ २८१-यशसू-कर-समाचारं ख्यातं भुवि दया-करम् ॥
पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तम-त्रपम्॥९॥ यशस्करेत्यादि-रामं दुन्वन्तमुपतापयन्तमपं निर्लजं धिक् त्वाम् । गहों । १३३६। टुहुँ उपतापे' इत्यस्य सौवादिकस्य शतरि '२३८७। हु-शुवोःसार्वधातुके ।६।४।८७।' इति यणादेशे रूपम् । कीदृशं रामम् । यशस्करसमाचारम् । समाचरणं समाचारः चरितं भावे घञ् । यशस्करोतीति यशस्करः । '२९३४॥ कृलो हेतु-३।२।२०।' इत्यादिना टः । १३८॥ विसर्जनीयस्य सः ।।३।३४।' यशस्करणहेतुभूतः समाचारो यस्य । ख्यातं भुवि प्रसिद्धं दयाकरं करुणाकरणशीलम् । ताच्छील्ये टः । पितुर्वाक्यकरं पितुर्वचनानुष्ठाने अनुकू. लम् । आनुलोम्ये टः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com