________________
तथा लक्ष्य-रूपै कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ११५ २७६-मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव, ।
उद्भासिनी च भूत्वा मे वक्षःसंमार्दनी भव.' ॥१३॥ मा स्मेत्यादि-हे भीरु! मा स भूहिणी प्रतिकूला मा भूः। न यास्यामीत्यमुमर्थं गृह्णामीति कृत्वा । '२२२०। मोत्तरे लङ् च ।३।३।१७६।' इति चकारात् लुङ् । गन्तुमुत्साहिनी उद्युक्ता भव । '३१७७। शक धृष-३।४।६५।' इत्यादिना तुमुन् । उत्साहिनीति सहोपपदत्वात् । ततश्वालंकृतशरीरत्वादुद्भासिनी शोभमाना भूत्वा नो ऽस्माकं वक्षःसंमर्दिनी स्तनाभ्यामुरःस्थलस्य पीडिका भव । ग्रहोत्साहोद्धाससंमर्दानां ग्रहादिषु पठितत्वात् कर्तरि णिनिः । ३०६। ऋन्नेभ्यो ङीप् ।४।१।५।' ॥ २७७-तां प्रातिकूलिकी मत्वा जिहीर्षुर् भीम-विग्रहः ॥
बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः ॥९४॥ तामित्यादि-यदैवमभिधीयमाना न प्रतिपन्ना तदा तां प्रातिकूलिकी प्रतिकूलवर्तिनी मत्वा ज्ञात्वा । 'ओजःसहोम्भसा वर्तत' इत्यधिकृत्य प्रतिकूलं वर्तत इत्यस्मिन्नर्थे १५७८॥ तत्प्रत्यनुपूर्व-1४।४।२८।' इत्यादिना ठक् । जिहीर्षुः हर्तुमिच्छुः । भीमविग्रहः भीषणशरीरः । दृष्टराक्षसशरीररूपः। सुखेन हियत इति बाहूपपीडमाश्लिष्य बाहुभिरुपपीड्य । '२३७०। सप्तम्यां चोपपीड१३।४।४९।' इति चकारात् तृतीयान्त उपपदे णमुल । जगाहे रथेनोत्पत्य द्यामाकाशं निशाचरी गाहते स्म । दिवशब्दसमानार्थो द्योशब्द औणादिकः । 'गमेडौँ' इत्यत्र छुतेश्चेति वचनात् । '२८५। औतोऽम्शसोः ।।११९३।' इत्यात्वम् । कालापिनस्तु दिवशब्दादेव व्युत्पादयितुं सूत्रमधीयते वाम्येति । दिवः अमि विकल्पेनाकारादेश इति ॥ २७८-त्रस्यन्तीं तां समादाय यतो रात्रि-चराऽऽलयम् ॥
तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः ॥ ९५ ॥ त्रस्यन्तीमित्यादि-त्रस्यन्ती च तां तद्रूपदर्शनात् समादाय गृहीत्वा यतो गच्छतो रावणात् । यातेः शतरि पञ्चम्या रूपम् । किं यातो रात्रिचरालयं लङ्काम् । रात्रौ चरतीति २९३०। चरेष्टः ।३।२।१६।' । '१००८ रात्रेः कृति विभाषा ।६।३।७२।' इति मुम् । तस्मादावणाद्यद्भयं ततो भयात् तूष्णीम्भूय । '३३८५। तूष्णीमि भुवः ॥३॥४॥३३॥' इति '७८५। क्त्वा च ।।२।२२।' इति समासे ल्यबादेशः । आसांचक्रिरे आसिताः । '२३२४। दयायासश्च ।३।।३७।' इत्याम् । मृगपक्षिणः मृगाश्च पक्षिणश्च । समानजातीयानामिति वचनादेकवद्भावोऽत्र न भवति ॥ २७९-उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ ॥ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्. ॥ ९६ ॥
॥ इति प्रकीर्ण-काण्डः प्रथमः समाप्तः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com